header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ षट्षष्टितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ षट्षष्टितमोऽध्यायः
पौण्ड्रककाशिराजयोर्वधः, स्वप्रयुक्तेनाभिचाराग्निना सुदक्षिणस्य विनाशः, सुदर्शनेन वाराणसीदहनं च
श्रीशुक उवाच नन्दव्रजं गते रामे करूषाधिपतिर्नृप। वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत्॥ १ त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः। इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम्॥ २ दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने। द्वारकायां यथा बालो नृपो बालकृतोऽबुधः॥ ३ दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम्। कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत्॥ ४ वासुदेवोऽवतीर्णोहमेक एव न चापरः। भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज॥ ५ यानि त्वमस्मच्चिह्नानि मौढ्याद् बिभर्षि सात्वत। त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम्॥ ६ श्रीशुक उवाच कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः। उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा॥ ७ उवाच दूतं भगवान् परिहासकथामनु। उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे॥ ८ मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः। शयिष्यसे हतस्तत्र भविता शरणं शुनाम्॥ ९ इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरत्। कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह॥ १० पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः। अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम्॥ ११ तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप। अक्षौहिणीभिस्तिसृभिरपश्यत् पौण्ड्रकं हरिः॥ १२ शङ्खार्यसिगदाशार्ङ्ग श्रीवत्साद्युपलक्षितम्। बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम्॥ १३ कौशेयवाससी पीते वसानं गरुडध्वजम्। अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम्॥ १४ दृष्ट्वा तमात्मनस्तुल्यवेषं कृत्रिममास्थितम्। यथा नटं रङ्गगतं विजहास भृशं हरिः॥ १५ शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः। असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम्॥ १६ कृष्णस्तु तत्पौण्ड्रककाशिराजयो- र्बलं गजस्यन्दनवाजिपत्तिमत्। गदासिचक्रेषुभिरार्दयद् भृशं यथा युगान्ते हुतभुक् पृथक् प्रजाः॥ १७ आयोधनं तद्रथवाजिकुञ्जर- द्विपत्खरोष्ट्रैररिणावखण्डितैः। बभौ चितं मोदवहं मनस्विना- माक्रीडनं भूतपतेरिवोल्बणम्॥ १८ अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद् भवान्। दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते॥ १९ त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम्। व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम्॥ २० इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम्। शिरोऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः॥ २१ तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः। न्यपातयत् काशीपुर्यां पद्मकोशमिवानिलः॥ २२ एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरिः। द्वारकामाविशत् सिद्धैर्गीयमानकथामृतः॥ २३ स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धनः। बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत्॥ २४ शिरः पतितमालोक्य राजद्वारे सकुण्डलम्। किमिदं कस्य वा वक्त्रमिति संशिशियरे जनाः॥ २५ राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः। पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन्॥ २६ सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पितुः। निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः॥ २७ इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम्। सुदक्षिणोऽर्चयामास परमेण समाधिना॥ २८ प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद् भवः। पितृहन्तृवधोपायं स वव्रे वरमीप्सितम्॥ २९ दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम्। अभिचारविधानेन स चाग्निः प्रमथैर्वृतः॥ ३० साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः। इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती॥ ३१ ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः। तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः॥ ३२ दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्यः स्वजिह्वया। आलिहन् सृक्किणी नग्नो विधुन्वंस्त्रिशिखं ज्वलन्॥ ३३ पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम्। सोऽयधावद् वृतो भूतैर्द्वारकां प्रदहन् दिशः॥ ३४ तमाभिचारदहनमायान्तं द्वारकौकसः। विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा॥ ३५ अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः। त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम्॥ ३६ श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम्। शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम्॥ ३७ सर्वस्यान्तर्बहिःसाक्षी कृत्यां माहेश्वरीं विभुः। विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत्॥ ३८ तत् सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम्। स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्त्रमथाग्निमार्दयत्॥ ३९ कृत्यानलः प्रतिहतः स रथाङ्गपाणे- रस्त्रौजसा स नृप भग्नमुखो निवृत्तः। वाराणसीं परिसमेत्य सुदक्षिणं तं सर्त्विग्जनं समदहत् स्वकृतोऽभिचारः॥ ४० चक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम्। सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्यश्वरथान्नशालाम्॥ ४१ दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम्। भूयः पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मणः॥ ४२ य एतच्छ्रावयेन्मर्त्य उत्तमश्लोकविक्रमम्। समाहितो वा शृणुयात् सर्वपापैः प्रमुच्यते॥ ४३ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पौण्ड्रकादिवधो नाम षट्षष्टितमोऽध्यायः ॥ ६६
Tamil