header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ पञ्चषष्टितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ पञ्चषष्टितमोऽध्यायः
बलभद्रस्य व्रजे गमनं कालिन्दीकर्षणं च
श्रीशुक उवाच बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 1 परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ 2 चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः । इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ 3 गोपवृद्धांश्च विधिवद् यविष्ठैरभिवन्दितः । यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ 4 समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः । विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ 5 पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ 6 कच्चिन्नो बान्धवा राम सर्वे कुशलमासते । कच्चित् स्मरथ नो राम यूयं दारसुतान्विताः ॥ 7 दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रिताः ॥ 8 गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ 9 कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः । अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति । अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ 10 मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄरपि । यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ 11 ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः । कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ 12 कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः । गृह्णन्ति वै चित्रकथस्य सुन्दर- स्मितावलोकोच्छ्वसितस्मरातुराः ॥ 13 किं नस्तत्कथया गोप्यः कथाः कथयतापराः । यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ 14 इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ 15 सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः । सान्त्वयामास भगवान् नानानुनयकोविदः ॥ 16 द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च । रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ 17 पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना । यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ 18 वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् । पतन्ती तद् वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ 19 तं गन्धं मधुधाराया वायुनोपहृतं बलः । आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ 20 उपगीयमानचरितो वनिताभिर्हलायुध । वनेषु व्यचरत् क्षीबो मदविह्वललोचनः ॥ 21 स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत् स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ 22 स आजुहाव यमुनां जलक्रीडार्थमीश्वरः । निजं वाक्यमनादृत्य मत्त इत्यापगां बलः । अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥ 23 पापे त्वं मामवज्ञाय यन्नायासि मयाऽऽहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ 24 एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् । उवाच चकिता वाचं पतिता पादयोर्नृप ॥ 25 राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ 26 परं भावं भगवतो भगवन् मामजानतीम् । मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ 27 ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः । विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ 28 कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ 29 वसित्वा वाससी नीले मालामामुच्य काञ्चनीम् । रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ 30 अद्यापि दृश्यते राजन् यमुनाऽऽकृष्टवर्त्मना । बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ 31 एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ 32 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः ॥ 65
Tamil