श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ त्रयोविंशोऽध्याय:
अनुद्रुह्युतुर्वसुयदूनां वंशवर्णनम्
श्रीशुक उवाच।
अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः।
सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः॥ 1
जनमेजयस्तस्य पुत्रो महाशालो महामनाः।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ॥ 2
शिबिर्वनः शमिर्दक्षश्चत्वारोशीनरात्मजाः।
वृषादर्भः सुवीरश्च मद्रः कैकेय आत्मजाः॥ 3
शिबेश्चत्वार एवासंस्तितिक्षोश्च रुशद्रथः।
ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत्॥ 4
अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः।
जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः॥ 5
चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते।
खनपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्ततः॥ 6
सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः।
रोमपाद इति ख्यातस्तस्मै दशरथः सखा॥ 7
शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम्।
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम्॥ 8
नाट्यसंगीतवादित्रैर्विभ्रमालिङ्गनार्हणैः।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः॥ 9
प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः॥ 10
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः।
आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृतः॥ 11
विजयस्तस्य सम्भूत्यां ततो धृतिरजायत।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः॥ 12
योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम्।
कुन्त्यापविद्धं कानीनमनपत्योऽकरोत् सुतम्॥ 13
वृषसेनः सुतस्तस्य कर्णस्य जगतीपते।
द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः॥ 14
आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः।
धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसं शतम्॥ 15
म्लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिताः।
तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान्॥ 16
त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः।
मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत्॥ 17
दुष्मन्तः स पुनर्भेजे स्वं वंशं राज्यकामुकः।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ॥ 18
वर्णयामि महापुण्यं सर्वपापहरं नृणाम्।
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते॥ 19
यत्रावतीर्णो भगवान् परमात्मा नराकृतिः।
यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः॥ 20
चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः।
महाहयो वेणुहयो हैहयश्चेति तत्सुताः॥ 21
धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः॥ 22
दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः।
कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः॥ 23
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत्।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः॥ 24
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः।
यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः॥ 25
पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु॥ 26
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे।
जयध्वजः शूरसेनो वृषभो मधुरूर्जितः॥ 27
जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत्।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम्॥ 28
तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः।
तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम्॥ 29
माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः।
यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः॥ 30
श्वाहिस्ततो रुशेकुर्वै तस्य चित्ररथस्ततः।
शशबिन्दुर्महायोगी महाभाजो महानभूत्॥ 31
चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः।
तस्य पत्नीसहस्राणां दशानां सुमहायशाः॥ 32
दशलक्षसहस्राणि पुत्राणां तास्वजीजनत्।
तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः॥ 33
धर्मो नामोशना तस्य हयमेधशतस्य याट्।
तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः श्रृणु॥ 34
पुरुजिद्रुक्मरुक्मेषुपृथुज्यामघसंज्ञिताः।
ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात्॥ 35
नाविन्दच्छत्रुभवनाद् भोज्यां कन्यामहारषीत्।
रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता॥ 36
केयं कुहक मत्स्थानं रथमारोपितेति वै।
स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत्॥ 37
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम्।
जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते॥ 38
अन्वमोदन्त तद्विश्वेदेवाः पितर एव च।
शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम्।
स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम्॥ 39
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
नवमस्कन्धे यदुवंशानुवर्णनं त्रयोविंशोऽध्यायः॥ 23 ॥