header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ द्वाविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ द्वाविंशोऽध्यायः
दिवोदासादिवंशकथनम्, ऋक्षवंशे पाण्डवाद्युत्पत्तिश्च
श्रीशुक उवाच। मित्रेयुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप। सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत्॥ 1 तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः। द्रुपदो द्रौपदी तस्य धृष्टद्युम्नादयः सुताः॥ 2 धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्याः पाञ्चालका इमे। योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः॥ 3 तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः। परीक्षित् सुधनुर्जह्नुर्निषधाश्व कुरोः सुताः॥ 4 सुहोत्रोऽभूत् सुधनुषश्च्यवनोऽथ ततः कृती। वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः॥ 5 कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपाः। बृहद्रथात् कुशाग्रोऽभूदृषभस्तस्य तत्सुतः॥ 6 जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहुः। अन्यस्यां चापि भार्यायां शकले द्वे बृहद्रथात्॥ 7 ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते। जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः॥ 8 ततश्च सहदेवोऽभूत् सोमापिर्यच्छृतश्रवाः। परीक्षिदनपत्योऽभूत् सुरथो नाम जाह्नवः॥ 9 ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत्। जयसेनस्तत्तनयो राधिकोऽतोऽयुतो ह्यभूत्॥ 10 ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च। ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः॥ 11 देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः। पितृराज्यं परित्यज्य देवापिस्तु वनं गतः॥ 12 अभवच्छन्तनू राजा प्राङ्‌महाभिषसंज्ञितः। यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः॥ 13 शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शन्तनुः। समा द्वादश तद्राज्ये न ववर्ष यदा विभुः॥ 14 शन्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक्। राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये॥ 15 एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत्। तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद् विभ्रंशितो गिरा॥ 16 वेदवादातिवादान् वै तदा देवो ववर्ष ह। देवापिर्योगमास्थाय कलापग्राममाश्रितः॥ 17 सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति। बाह्लीकात् सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्ततः॥ 18 शलश्च शन्तनोरासीद् गङ्गायां भीष्म आत्मवान्। सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः॥ 19 वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः। शन्तनोर्दाशकन्यायां जज्ञे चित्राङ्गदः सुतः॥ 20 विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः। यस्यां पराशरात् साक्षादवतीर्णो हरेः कला॥ 21 वेदगुप्तो मुनिः कृष्णो यतोऽहमिदमध्यगाम्। हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः॥ 22 मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ। विचित्रवीर्योऽथोवाह काशीराजसुते बलात्॥ 23 स्वयंवरादुपानीते अम्बिकाम्बालिके उभे। तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः॥ 24 क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः। धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत्॥ 25 गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप। तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका॥ 26 शापान्मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः। जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः॥ 27 नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः। द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन्॥ 28 युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः॥ 29 सहदेवसुतो राजच्छ्रुतकर्मा तथापरे। युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः॥ 30 भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः। सहदेवात् सुहोत्रं तु विजयासूत पार्वती॥ 31 करेणुमत्यां नकुलो निरमित्रं तथार्जुनः। इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम्। मणिपुरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः॥ 32 तव तातः सुभद्रायामभिमन्युरजायत। सर्वातिरथजिद् वीर उत्तरायां ततो भवान्॥ 33 परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा। त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात्॥ 34 तवेमे तनयास्तात जनमेजयपूर्वकाः। श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान्॥ 35 जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम्। सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः॥ 36 कावषेयं पुरोधाय तुरं तुरगमेधयाट्। समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः॥ 37 तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन्। अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति॥ 38 सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः। असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः॥ 39 गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति। उक्तस्ततश्चित्ररथस्तस्मात् कविरथः सुतः॥ 40 तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपतिः। सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः॥ 41 परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः। नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति॥ 42 तिमेर्बृहद्रथस्तस्माच्छतानीकः सुदासजः। शतानीकाद् दुर्दमनस्तस्यापत्यं बहीनरः॥ 43 दण्डपाणिर्निमिस्तस्य क्षेमको भविता नृपः। ब्रह्मक्षत्रस्य वै प्रोक्तो वंशो देवर्षिसत्कृतः॥ 44 क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ। अथ मागधराजानो भवितारो ये वदामि ते॥ 45 भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवाः। ततोऽयुतायुस्तस्यापि निरमित्रोऽथ तत्सुतः॥ 46 सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित्। ततः सुतञ्जयाद् विप्रः शुचिस्तस्य भविष्यति॥ 47 क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्रः शमस्ततः। द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः॥ 48 सुनीथः सत्यजिदथ विश्वजिद् यद् रिपुञ्जयः। बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम्॥ 49 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ 22 ॥
Tamil