header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ विंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ विंशोऽध्यायः
पूरुवंशवर्णनं तत्र दुष्यन्तभरतयोश्चरितम्
श्रीशुक उवाच। पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत। यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे॥ 1 जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः। प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदोऽभवत्॥ 2 तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्ततः। संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः॥ 3 ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः। जलेयुः सन्ततेयुश्च धर्मसत्यव्रतेयवः॥ 4 दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः। घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः॥ 5 ऋतेयो रन्तिभारोऽभूत् त्रयस्तस्यात्मजा नृप। सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः॥ 6 तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः। पुत्रोऽभूत् सुमते रैभ्यो दुष्यन्तस्तत्सुतो मतः॥ 7 दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः। तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव॥ 8 विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम्। बभाषे तां वरारोहां भटैः कतिपयैर्वृतः॥ 9 तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः। पप्रच्छ कामसन्तप्तः प्रहसञ्श्लक्ष्णया गिरा॥ 10 का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे। किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने॥ 11 व्यक्तं राजन्यतनयां वेद्‌म्यहं त्वां सुमध्यमे। न हि चेतः पौरवाणामधर्मे रमते क्वचित्॥ 12 श्रीशकुन्तलोवाच। विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने। वेदैतद् भगवान् कण्वो वीर किं करवाम ते॥ 13 आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः। भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते॥ 14 दुष्यन्त उवाच। उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये। स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम्॥ 15 ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम्। गान्धर्वविधिना राजा देशकालविधानवित्॥ 16 अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे। श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम्॥ 17 कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः। बद्ध्वा मृगेन्द्रांस्तरसा क्रीडति स्म स बालकः॥ 18 तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा। हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत्॥ 19 यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ। श्रृण्वतां सर्वभूतानां खे वागाहाशरीरिणी॥ 20 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः। भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्॥ 21 रेतोधाः पुत्रो नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥ 22 पितर्युपरते सोऽपि चक्रवर्ती महायशाः। महिमा गीयते तस्य हरेरंशभुवो भुवि॥ 23 चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः। ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः॥ 24 पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः। मामतेयं पुरोधाय यमुनामनु प्रभुः॥ 25 अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु। भरतस्य हि दौष्यन्तेरग्निः साचीगुणे चितः। सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे॥ 26 त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान्। दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ॥ 27 मृगाञ्छुक्लदतः कृष्णान् हिरण्येन परीवृतान्। अदात् कर्मणि मष्णारे नियुतानि चतुर्दश॥ 28 भरतस्य महत् कर्म न पूर्वे नापरे नृपाः। नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा॥ 29 किरातहूणान् यवनानन्ध्रान् कङ्कान् खशाञ्छकान्। अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान्॥ 30 जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे। देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत्॥ 31 सर्वाकामान् दुदुहतुः प्रजानां तस्य रोदसी। समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत्॥ 32 स सम्राड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम्। चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह॥ 33 तस्यासन् नृप वैदर्भ्यः पत्‍न्यस्तिस्रः सुसम्मताः। जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते॥ 34 तस्यैवं वितथे वंशे तदर्थं यजतः सुतम्। मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः॥ 35 अन्तर्वत्‍न्यां भ्रातृपत्‍न्यां मैथुनाय बृहस्पतिः। प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमवासृजत्॥ 36 तं त्यक्तुकामां ममतां भर्तुत्यागविशंकिताम्। नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः॥ 37 मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते। यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम्॥ 38 चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम्। व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये॥ 39 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे विंशोऽध्यायः ॥ 20
Tamil