श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ द्वादशोऽध्यायः
इक्ष्वाकूणां कुशादिसुमित्रान्तानां वर्णनम्
श्रीशुक उवाच।
कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः।
पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः॥ 1
देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसंभवः॥ 2
खगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुतः।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः॥ 3
शिष्यः कौसल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः।
योगं महोदयमृषिर्हृदयग्रन्थिभेदकम्॥ 4
पुष्यो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत्।
सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः॥ 5
सोऽसावास्ते योगसिद्धः कलापग्राममाश्रितः।
कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः॥ 6
तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः।
महस्वांस्तत्सुतस्तस्माद् विश्वसाह्वोऽन्वजायत॥ 7
ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः।
ततो बृहद्बलो यस्तु पित्रा ते समरे हतः॥ 8
एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान्।
बृहद्बलस्य भविता पुत्रो नाम बृहद्रणः॥ 9
ऊरुक्रियस्ततस्तस्य वत्सवृद्धो भविष्यति।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः॥ 10
सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान्।
प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः॥ 11
भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः।
तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित्॥ 12
बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः।
रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः॥ 13
तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः।
ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः॥ 14
रणको भविता तस्मात् सुरथस्तनयस्ततः।
सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः॥ 15
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ॥ 16
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
नवमस्कन्धे इक्ष्वाकुवंशवर्णनं नाम द्वाशोऽध्यायः ॥ 12 ॥