header_image
Home
Tamil

अष्टमः स्कन्धः ~:०:~ अथ षष्ठोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ षष्ठोऽध्यायः
भगवदाज्ञया देवानामसुरैः सन्धाय समुद्रमन्थनार्थमुद्योगः
श्रीशुक उवाच - एवं स्तुतः सुरगणैर्भवान् हरिरीश्वरः। तेषामाविरभूद् राजन्सहस्रार्कोदयद्युतिः॥ 1 तेनैव महसा सर्वे देवाः प्रतिहतेक्षणाः। नापश्यन्खं दिशः क्षौणीमात्मानं च कुतो विभुम्॥ 2 विरिञ्चो भगवान्दृष्ट्वा सह शर्वेण तां तनुम्। स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम्॥ 3 तप्तहेमावदातेन लसत्कौशेयवाससा। प्रसन्नचारुसर्वांगीं सुमुखीं सुन्दरभ्रुवम्॥ 4 महामणिकिरीटेन केयूराभ्यां च भूषिताम्। कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम्॥ 5 काञ्चीकलापवलयहारनूपुरशोभिताम्। कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम्॥ 6 सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम्। तुष्टाव देवप्रवरः सशर्वः पुरुषं परम्। सर्वामरगणैः साकं सर्वांगैरवनिं गतैः॥ 7 श्रीब्रह्मोवाच - अजातजन्मस्थितिसंयमाया- गुणाय निर्वाणसुखार्णवाय। अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते॥ 8 रूपं तवैतत् पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण। योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ॥ 9 त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीदिदमात्मतन्त्रे। त्वंमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात्॥ 10 त्वं माययाऽऽत्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः। पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः॥ 11 यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम्। योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति॥ 12 तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम्। दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्‌गमम्भः॥ 13 स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम्। समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः॥ 14 अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते। किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमंत्रम्॥ 15 श्रीशुक उवाच - एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं तथैव। जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्संवृतसर्वकारकान्॥ 16 एक एवेश्वरस्तस्मिन्सुरकार्ये सुरेश्वरः। विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः॥ 17 श्रीभगवानुवाच - हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम्। श्रृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः॥ 18 यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम्। कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मनः॥ 19 अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे। अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतैः॥ 20 अमृतोत्पादने यत्‍नः क्रियतामविलम्बितम्। यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत्॥ 21 क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः। मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्॥ 22 सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः। क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः॥ 23 यूयं तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः। न संरम्भेण सिध्यन्ति सर्वाऽर्थाः सान्त्वया यथा॥ 24 न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात्। लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु॥ 25 श्रीशुक उवाच - इति देवान्समादिश्य भगवान्पुरुषोत्तमः। तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वरः॥ 26 अथ तस्मै भगवते नमस्कृत्य पितामहः। भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः॥ 27 दृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान्। न्यषेधद् दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित्॥ 28 ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः। श्रिया परमया जुष्टं जिताशेषमुपागमन्॥ 29 महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः। अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात्॥ 30 तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः। शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः॥ 31 ततो देवासुराः कृत्वा संविदं कृतसौहृदाः। उद्यमं परमं चक्रुरमृतार्थे परन्तप॥ 32 ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः। नदन्त उदधिं निन्युः शक्ताः परिघबाहवः॥ 33 दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः। अपारयन्तस्तं वोढुं विवशा विजहुः पथि॥ 34 निपतन्स गिरिस्तत्र बहूनमरदानवान्। चूर्णयामास महता भारेण कनकाचलः॥ 35 तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान्। विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः॥ 36 गिरिपातविनिष्पिष्टान्विलोक्यामरदानवान्। ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा॥ 37 गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया। आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः॥ 38 अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः। ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः॥ 39 ॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धेऽमृतमथने मन्दराचल आनयनं नाम षष्ठोऽध्यायः ॥ 6 ॥
Tamil