header_image
Home
Tamil

द्वितीयः स्कन्ध :: अथ तृतीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: द्वितीयः स्कन्ध
अथ तृतीयोऽध्यायः
नानाविधकामनासिद्धये नानादेवानामुपासनम्, शौनकप्रश्नः - तत्र भगवत्सेवापरायणेन्द्रियाणां प्रशंसनं च
श्रीशुक उवाच एवमेतन्निगदितं पृष्टवान्यद्भवान्मम। नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम्॥ 1 ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम्। इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन्॥ 2 देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्। वसुकामो वसून्रुद्रान्वीर्यकामोऽथ वीर्यवान्॥ 3 अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान्। विश्वान्देवान्राज्यकामः साध्यान्संसाधको विशाम्॥ 4 आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्। प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ॥ 5 रूपाभिकामो गन्धर्वान्स्त्रीकामोऽप्सर उर्वशीम्। आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्॥ 6 यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम्। विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम्॥ 7 धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन्पित्न्यजेत्। रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान्॥ 8 राज्यकामो मनून्देवान्निरृतिं त्वभिचरन्यजेत्। कामकामो यजेत्सोममकामः पुरुषं परम्॥ 9 अकामः सर्वकामो वा मोक्षकाम उदारधीः। तीव्रेण भक्तियोगेन यजेत पुरुषं परम्॥ 10 एतावानेव यजतामिह निःश्रेयसोदयः। भगवत्यचलो भावो यद्भागवतसङ्गतः॥ 11 ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् आत्मप्रसाद उत यत्र गुणेष्वसङ्गः। कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात्॥ 12 शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभः। किमन्यत्पृष्टवान्भूयो वैयासकिमृषिं कविम्॥ 13 एतच्छुश्रूषतां विद्वन्सूत नोऽर्हसि भाषितुम्। कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम्॥ 14 स वै भागवतो राजा पाण्डवेयो महारथः। बालक्रीडनकैः क्रीडन्कृष्णक्रीडां य आददे॥ 15 वैयासकिश्च भगवान्वासुदेवपरायणः। उरुगायगुणोदाराः सतां स्युर्हि समागमे॥ 16 आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ। तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया॥ 17 तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत। न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे॥ 18 श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः। न यत्कर्णपथोपेतो जातु नाम गदाग्रजः॥ 19 बिले बतोरुक्रमविक्रमान्ये न शृण्वतः कर्णपुटे नरस्य। जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः॥ 20 भारः परं पट्टकिरीटजुष्टं अप्युत्तमाङ्गं न नमेन्मुकुन्दम्। शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा॥ 21 बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये। पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ॥ 22 जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु। श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम्॥ 23 तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः। न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः॥ 24 अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः। यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः॥ 25 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे द्वितीयोऽध्यायः ॥
Tamil