श्रीमद्भागवतमहापुराणम् :: द्वितीयः स्कन्ध
अथ दशमोऽध्यायः
पुराणलक्षणानि, विराट्पुरुषविग्रहे इन्द्रिय तदधिष्ठातृदेवानामुत्पत्तिश्च
श्रीशुक उवाच
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः॥ 1
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम्।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा॥ 2
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः।
ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः॥ 3
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः।
मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः॥ 4
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम्।
सतामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः॥ 5
निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः।
मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः॥ 6
आभासश्च निरोधश्च यतश्चाध्यवसीयते।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते॥ 7
योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः।
यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः॥ 8
एकमेकतराभावे यदा नोपलभामहे।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः॥ 9
पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः॥ 10
तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान्।
तेन नारायणो नाम यदापः पुरुषोद्भवाः॥ 11
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥ 12
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः।
वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा॥ 13
अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः।
यथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु॥ 14
अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः।
ओजः सहो बलं जज्ञे ततः प्राणो महानसुः॥ 15
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु।
अपानन्तमपानन्ति नरदेवमिवानुगाः॥ 16
प्राणेन क्षिपता क्षुत् तृडन्तरा जायते प्रभोः।
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत॥ 17
मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते।
ततो नाना रसो जज्ञे जिह्वया योऽधिगम्यते॥ 18
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः।
जले वै तस्य सुचिरं निरोधः समजायत॥ 19
नासिके निरभिद्येतां दोधूयति नभस्वति।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः॥ 20
यदाऽऽत्मनि निरालोकमात्मानं च दिदृक्षतः।
निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः॥ 21
बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः।
कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः॥ 22
वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम्।
जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः।
तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः॥ 23
हस्तौ रुरुहतुस्तस्य नाना कर्मचिकीर्षया।
तयोस्तु बलवानिन्द्रश्च आदानमुभयाश्रयम्॥ 24
गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम्।
पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः॥ 25
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम्॥ 26
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम्।
ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः॥ 27
आसिसृप्सोः पुरः पुर्या नाभिद्वारमपानतः।
तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम्॥ 28
आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः।
नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये॥ 29
निदिध्यासोरात्ममायां हृदयं निरभिद्यत।
ततो मनस्तत्श्चन्द्रः सङ्कल्पः काम एव च॥ 30
त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः।
भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः॥ 31
गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः।
मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी॥ 32
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम्॥ 33
अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम्।
अनादिमध्यनिधनं नित्यं वाङ्मनसः परम्॥ 34
अमुनी भगवद्रूपे मया ते अनुवर्णिते।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः॥ 35
स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक्।
नामरूपक्रिया धत्ते सकर्माकर्मकः परः॥ 36
प्रजापतीन्मनून् देवानृषीन् पितृगणान् पृथक्।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान्॥ 37
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान्।
मातृ रक्षःपिशाचांश्च प्रेतभूतविनायकान्॥ 38
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि।
खगान्मृगान् पशून् वृक्षान् गिरीन्नृप सरीसृपान्॥ 39
द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः।
कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः॥ 40
सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा।
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते॥ 41
स एवेदं जगद्धाता भगवान् धर्मरूपधृक्।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः॥ 42
ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः।
सन्नियच्छति कालोन घनानीकमिवानिलः॥ 43
इत्थम्भावेन कथितो भगवान् भगवत्तमः।
नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः॥ 44
नास्य कर्मणि जन्मादौ परस्यानुविधीयते।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत्॥ 45
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः॥ 46
परिमाणं च कालस्य कल्पलक्षणविग्रहम्।
यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु॥ 47
शौनक उवाच
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान्॥ 48
कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह॥ 49
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम्।
बन्धुत्यागनिमित्तं च तथैवागतवान् पुनः॥ 50
सूत उवाच
राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः।
तद्वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः॥ 51
॥इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां
पारमहंस्यां संहितायां द्वितीयस्कन्धे
पुरुषसंस्थावर्णनं नाम दशमोऽध्यायः ॥ 10
~ ०० ~
॥ इति द्वितीयः स्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत् ॥
~ ०० ~