header_image
Home
Tamil

द्वादश स्कन्धः :: अथ प्रथमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: द्वादश स्कन्धः
अथ प्रथमोऽध्यायः
कलियुगीयराजवंशवर्णनम्
राजोवाच - स्वधामानुगते कृष्ण यदुवंशविभूषणे। कस्य वंशोऽभवत् पृथ्व्यामेतदाचक्ष्व मे मुने॥ १ श्रीशुक उवाच। योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप। तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्॥ २ प्रद्योतसंज्ञं राजानं कर्ता यत् पालकः सुतः। विशाखयूपस्तत्पुत्रो भविता राजकस्ततः॥ ३ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे। अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः॥ ४ शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः। क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः॥ ५ विधिसारः सुतस्तस्या जातशत्रुर्भविष्यति। दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः॥ ६ नन्दिवर्धन आजेयो महानन्दिः सुतस्ततः। शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम्॥ ७ समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः। महानन्दिसुतो राजन् शूद्रीगर्भोद्भवो बली॥ ८ महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत्। ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः॥ ९ स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः। शासिष्यति महापद्मो द्वितीय इव भार्गवः॥ १० तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः। य इमां भोक्ष्यन्ति महीं राजानःस्म शतं समाः॥ ११ नव नन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति। तेषांमभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ॥ १२ स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति। तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः॥ १३ सुयशा भविता तस्य सङ्गतः सुयशःसुतः। शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति॥ १४ शतधन्वा ततस्तस्य भविता तद् बृहद्रथः। मौर्या ह्येते दश नृपाः सप्तत्रिंशच्छतोत्तरम्। समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह॥ १५ हत्वा बृहद्रथं मौर्यं तस्य सेनापतिः कलौ। पुष्पमित्रस्तु शुङ्गाह्वः स्वयं राज्यं करिष्यति। अग्निमित्रस्ततस्तस्मात् सुज्येष्ठोऽथ भविष्यति॥ १६ वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः। ततो घोषः सुतस्तस्माद् वज्रमित्रो भविष्यति॥ १७ ततो भागवतस्तस्माद् देवभूतिरिति श्रुतः। शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम्॥ १८ ततः काण्वानियं भूमिर्यास्यत्यल्पगुणान् नृप। शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम्॥ १९ स्वयं करिष्यते राज्यं वसुदेवो महामतिः। तस्य पुत्रस्तु भूमित्रस्तस्य नारायणः सुतः। नारायणस्य भविता सुशर्मा नाम विश्रुतः॥ २० काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च। शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे॥ २१ हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली। गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित् कालमसत्तमः॥ २२ कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः। श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः॥ २३ लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः। मेघस्वातिश्चिबिलकादटमानस्तु तस्य च॥ २४ अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः। पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः॥ २५ चकोरो बहवो यत्र शिवस्वातिररिन्दमः। तस्यापि गोमतीपुत्रः पुरीमान् भविता ततः॥ २६ मेदःशिराः शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः। विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञः सलोमधिः॥ २७ एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च। षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन॥ २८ सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः। कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः॥ २९ ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्ककाः। भूयो दश गुरुण्डाश्च मौना एकादशैव तु॥ ३० एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च। नवाधिकां च नवतिं मौना एकादश क्षितिम्॥ ३१ भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः। किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः॥ ३२ शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः। इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट्॥ ३३ तेषां त्रयोदश सुता भवितारश्च बाह्लिकाः। पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च॥ ३४ एककाला इमे भूपाः सप्तान्ध्राः सप्त कोसलाः। विदूरपतयो भाव्या निषधास्तत एव हि॥ ३५ मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः। करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान्॥ ३६ प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः। वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि। अनुगङ्गामाप्रयागं गुप्तां भोक्ष्यति मेदिनीम्॥ ३७ सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः। व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः॥ ३८ सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम्। भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः॥ ३९ तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः। एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः॥ ४० स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः। उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः॥ ४१ असंस्कृताः क्रियाहीना रजसा तमसाऽऽवृताः। प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः॥ ४२ तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः। अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः॥ ४३ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे प्रथमोऽध्यायः॥ १
Tamil