header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ एकशीतितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ एकशीतितमोऽध्यायः
सुदाम्नः स्वपूरीं प्रत्यागमनं तत्र भगवद्दत्तमैश्वर्यमुपलभ्य भगवद्वात्सल्यगुणगानम्
श्रीशुक उवाच - स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः। सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम्॥ 1 ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम्। प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः॥ 2 श्रीभगवानुवाच - किमुपायनमानीतं ब्रह्मन् मे भवता गृहात्। अण्वप्युपाहृतं भक्तैः प्रेम्णा भुर्येव मे भवेत्। भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते॥ 3 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥ 4 इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः। पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः॥ 5 सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम्। विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा॥ 6 पत्‍न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया। प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः॥ 7 इत्थं विचिन्त्य वसनाच्चीरबद्धान्द्विजन्मनः। स्वयं जहार किमिदमिति पृथुकतण्डुलान्॥ 8 नन्वेतदुपनीतं मे परमप्रीणनं सखे। तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुलाः॥ 9 इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे। तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः॥ 10 एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये। अस्मिल्लोँकेऽथवामुष्मिन् पुंसस्त्वत्तोषकारणम्॥ 11 ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे। भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा॥ 12 श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः। जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः॥ 13 स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम्। स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः॥ 14 अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया। यद् दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि॥ 15 क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः। ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः॥ 16 निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा। महिष्या वीजितः श्रान्तो वालव्यजनहस्तया॥ 17 शुश्रूषया परमया पादसंवाहनादिभिः। पूजितो देवदेवेन विप्रदेवेन देववत्॥ 18 स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम्। सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम्॥ 19 अधनोऽयं धनं प्राप्य माद्यान्नुच्चैर्न मां स्मरेत्। इति कारुणिको नूनं धनं मेऽभूरि नाददात्॥ 20 इति तच्चिन्तयन्नन्तः प्राप्तो नियगृहान्तिकम्। सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम्॥ 21 विचित्रोपवनोद्यानैः कूजद्‍द्विजकुलाकुलैः। प्रोत्फुल्लकुमुदाम्भोजकह्लारोत्पलवारिभिः॥ 22 जुष्टंस्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः। किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत्॥ 23 एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः। प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा॥ 24 पतिमागतमाकर्ण्य पत्‍न्युद्धर्षातिसम्भ्रमा। निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात्॥ 25 पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना। मीलिताक्ष्यनमद् बुद्ध्या मनसा परिषस्वजे॥ 26 पत्‍नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव। दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः॥27 प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम्। मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा॥ 28 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः। पर्यङ्का हेमदण्डानि चामरव्यजनानि च॥ 29 आसनानि च हैमानि मृदूपस्तरणानि च। मुक्तादामविलम्बीनि वितानानि द्युमन्ति च॥ 30 स्वच्छस्फटिककुड्येषु महामारकतेषु च। रत्‍नदीपा भ्राजमानान् ललनारत्‍नसंयुताः॥ 31 विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम्। तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम्॥ 32 नूनं बतैतन्मम दुर्भगस्य शश्वद्दरिद्रस्य समृद्धिहेतुः। महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य॥ 33 नन्वब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरिभोजः। पर्जन्यवत्तत् स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे॥ 34 किञ्चित्करोत्युर्वपि यत् स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारी। मयोपनीतं पृथुकैकमुष्टिं प्रत्यग्रहीत् प्रीतियुतो महात्मा॥ 35 तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात्। महानुभावेन गुणालयेन विषज्जतस्तत्पुरुषप्रसङ्गः॥ 36 भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर्न समर्थयत्यजः। अदीर्घबोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्‌भवम्॥ 37 इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने। विषयान्जायया त्यक्ष्यन् बुभुजे नातिलम्पटः॥ 38 तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः। ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम्॥ 39 एवं स विप्रो भगवत्सुहृत्तदा दृष्ट्वा स्वभृत्यैरजितं पराजितम्। तद्ध्यानवेगोद्‌ग्रथितात्मबन्धनः तद्धाम लेभेऽचिरतः सतां गतिम्॥ 40 एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः। लब्धभावो भगवति कर्मबन्धाद् विमुच्यते॥ 41॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पृथुकोपाख्यानं नाम एकशीतितमोऽध्यायः॥ 81
Tamil