header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ अशीतितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ अशीतितमोऽध्यायः
सुदामोपाख्यानम् - पत्नीप्रेरणया सुदाम्नो भगवत्समीपे गमनं भगवता तस्य सत्कारश्च
श्रीराजोवाच - भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः। वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो॥ 1 को नु श्रुत्वासकृद् ब्रह्मन्नुत्तमःश्लोकसत्कथाः। विरमेत विशेषज्ञो विषण्णः काममार्गणैः॥ 2 सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च। स्मरेद्‌ वसन्तं स्थिरजङ्‌गमेषु श्रृणोति तत्पुण्यकथाः स कर्णः॥ 3 शिरस्तु तस्योभयलिङ्‌गमानमे- त्तदेव यत् पश्यति तद्धि चक्षुः। अङ्‌गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम्॥ 4 सूत उवाच - विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः। वासुदेवे भगवति निमग्नहृदयोऽब्रवीत्॥ 5 श्रीशुक उवाच - कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः। विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः॥ 6 यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी। तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा॥ 7 पतिव्रता पतिं प्राह म्लायता वदनेन सा। दरिद्रा सीदमाना सा वेपमानाभिगम्य च॥ 8 ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः। ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः॥ 9 तमुपैहि महाभाग साधूनां च परायणम्। दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने॥ 10 आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः। स्मरतः पादकमलमात्मानमपि यच्छति। किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्‌गुरुः॥ 11 स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु। अयं हि परमो लाभ उत्तमश्लोकदर्शनम्॥ 12 इति सञ्चिन्त्य मनसा गमनाय मतिं दधे। अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम्॥ 13 याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान्। चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम्॥ 14 स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल। कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन्॥ 15 त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च स द्विजः। विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम्॥ 16 गृहं द्‌व्यष्टसहस्राणां महिषीणां हरेर्द्विजः। विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा॥ 17 तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः। सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा॥ 18 सख्युः प्रियस्य विप्रर्षेरङ्‌गसङ्‌गातिनिर्वृतः। प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः॥ 19 अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम्। उपहृत्यावनिज्यास्य पादौ पादावनेजनीः॥ 20 अग्रहीच्छिरसा राजन् भगवाल्लोँकपावनः। व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः॥ 21 धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा। अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत्॥ 22 कुचैलं मलिनं क्षामं द्‌विजं धमनिसंततम्। देवी पर्यचरत् साक्षाच्चामरव्यजनेन वै॥ 23 अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना। विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम्॥ 24 किमनेन कृतं पुण्यमवधूतेन भिक्षुणा। श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च॥ 25 योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः। पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा॥ 26 कथयाञ्चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः। आत्मनो ललिता राजन् करौ गृह्य परस्परम्॥ 27 श्रीभगवानुवाच - अपि ब्रह्मन् गुरुकुलाद्‌ भवता लब्धदक्षिणात्। समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा॥ 28 प्रायो गृहेषु ते चित्तमकामविहितं तथा। नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे॥ 29 केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः। त्यजन्तः प्रकृतीर्दैवीर्यथाहं लोकसङ्‌ग्रहम्॥ 30 कच्चिद्‌ गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः। द्‌विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते॥ 31 स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः। आद्योऽङ्‌ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः॥ 32 नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह। ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम्॥ 33 नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा। तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा॥ 34 अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ। गुरुदारैश्चोदितानामिन्धनानयने क्वचित्॥ 35 प्रविष्टानां महारण्यमपर्तौ सुमहद् द्विज। वातवर्षमभूत्तीव्रं निष्ठुराः स्तनयित्‍नवः॥ 36 सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिशः। निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन॥ 37 वयं भृशं तत्र महानिलाम्बुभिः निहन्यमाना मुहुरम्बुसम्प्लवे। दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः॥ 38 एतद्‌ विदित्वा उदिते रवौ सान्दीपनिर्गुरुः। अन्वेषमाणो नः शिष्यानाचार्योऽपश्यदातुरान्॥ 39 अहो हे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः। आत्मा वै प्राणिनां प्रेष्ठस्तमनादृत्य मत्पराः॥ 40 एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम्। यद्‌ वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ॥ 41 तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः। छन्दांस्ययातयामानि भवन्त्विह परत्र च॥ 42 इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु। गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये॥ 43 श्रीब्राह्मण उवाच - किमस्माभिरनिर्वृत्तं देवदेव जगद्‌गुरो। भवता सत्यकामेन येषां वासो गुरावभूत्॥ 44 यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो। श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम्॥ 45 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः॥ 80॥
Tamil