home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

चतुरशीतितमः सर्गः॥२-८४॥

॥ गुहागमनम्॥

[ स्वबन्धून् नदीसंरक्षणाय युद्धार्थमुद्यमाय चादिश्य गुहेोपहारवस्तून्यादाय भरतस्य समीपे गमनं तं प्रत्यातिथ्यं स्वीकर्तुमनुरोधश्च ]

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्। निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत्॥ १॥ महतीयमितः सेना सागराभा प्रदृश्यते। नास्यान्तं नाधिगच्छामि मनसापि विचिन्तयन्॥ २॥ यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः। स एष हि महाकायः कोविदारध्वजो रथे॥ ३॥ बन्धयिष्यति वा दाशानथवास्मान् वधिष्यति। अथ दाशरथिं रामं पित्रा राज्याद्विवासितम्॥ ४॥ सम्पन्नां श्रियमन्विच्छन्स्तस्य राज्ञः सुदुर्लभाम्। भरतः कैकयीपुत्रो हन्तुं तमुपगच्छति॥ ५॥ भर्ता चैव सखा चैव रामो दाशरथिर्मम। तस्यार्थकामाः सन्नद्धा गङ्गानूपेऽत्र तिष्ठत॥ ६॥ तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम्। जालयुक्ता नदीरक्षा मांसमूलफलाशनाः॥ ७॥ नावां शतानां पञ्चानां कैवर्तानां शतं शतम्। सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत्॥ ८॥ यदा तुष्टस्तु भरतो रामस्येह भविष्यति। सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति॥ ९॥ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च। अभिचक्राम भरतं निषादाधिपतिर्गुहः॥ १०॥ तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान्। भरतायाचचक्षेऽथ विनयज्ञो विनीतवत्॥ ११॥ एष ज्ञातिसहस्रेण स्थपतिः परिवारितः। कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा॥ १२॥ तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः। असंशयं विजानीते यत्र तौ रामलक्ष्मणौ॥ १३॥ एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम्। उवाच वचनं शीघ्रं गुहः पश्यतु मामिति॥ १४॥ लब्ध्वाऽभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः। आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्॥ १५॥ निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्। निवेदयामस्ते सर्वे स्वके दासकुले वस॥ १६॥ अस्ति मूलं फलं चैव निषादैः समुपाहृतम्। आर्द्रमांसं च शुष्कं च वन्यं चोच्चावचं महत्॥ १७॥ आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्। अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि॥ १८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे गुहागमनं नाम चतुरशीतितमः सर्गः॥२-८४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध