home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

त्र्यशीतितमः सर्गः ॥२-८३॥

॥भरतवनप्रस्थानम्॥

[ भरतस्य वनयात्रा शृङ्गवेरपुरे रात्रिवासश्च ]

तत स्समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्। प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया॥ १॥ अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः। अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान्॥ २॥ नवनागसहस्राणि कल्पितानि यथाविधि। अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम्॥ ३॥ षष्टी रथसहस्राणि धन्विनो विविधायुधाः। अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्॥ ४॥ शतं सहस्राण्यश्वानां समारूढानि राघवम्। अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम्॥ ५॥ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी। रामानयनसंहृष्टा ययुर्यानेन भास्वताः॥ ६॥ प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम्। तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः॥ ७॥ मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्। कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्॥ ८॥ दृष्ट एव हि नः शोकमपनेष्यति राघवः। तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः॥ ९॥ इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः। परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः॥ १०॥ ये च तत्रापरे सर्वे सम्मता ये च नैगमाः। रामं प्रतिययुर्हृष्टाः सर्वाः प्रकृतयस्तथा॥ ११॥ मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः। सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः॥ १२॥ मयूरकाः क्राकचिका रोचका वेधकास्तथा। दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः॥ १३॥ सुवर्णकाराः प्रख्यातास्तथा कम्बलकारकाः। स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा॥ १४॥ रजकास्तन्तुवायाश्च ग्रामघोषमहत्तराः। शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा॥ १५॥ समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः। गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः॥ १६॥ सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः। सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः॥ १७॥ प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम्। भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम्॥ १८॥ ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः। समासेदुस्ततो गङ्गां शृङ्गीबेरपुरं प्रति॥ १९॥ यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः। निवसत्यप्रमादेन देशं तं परिपालयन्॥ २०॥ उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम्। व्यवातिष्ठत सा सेना भरतस्यानुयायिनी॥ २१॥ निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्। भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः॥ २२॥ निवेशयत मे सैन्यमभिप्रायेण सर्वतः। विश्रान्ताः प्रतरिष्यामः श्व इदानीमिमां नदीम्॥ २३॥ दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः। और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम्॥ २४॥ तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः। न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक् पृथक्॥ २५॥ निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्। उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे भरतवनप्रस्थानं नाम त्र्यशीतितमः सर्गः॥२-८३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध