तामार्यगणसम्पूर्णां भरतः प्रग्रहां सभाम्। ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रो निशामिव॥ १॥ आसनानि यथान्यायमार्याणां विशतां तदा। वस्त्राङ्गरागप्रभया द्योतिता सा सभोत्तमा॥ २॥ सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा। अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी॥ ३॥ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित्। इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्॥ ४॥ तात राजा दशरथः स्वर्गतो धर्ममाचरन्। धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव॥ ५॥ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन्। नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः॥ ६॥ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्। तद् भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय॥ ७॥ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः। कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते॥ ८॥ तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः। जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया॥ ९॥ स बाष्पकलया वाचा कलहंसस्वरो युवा। विललाप सभामध्ये जगर्हे च पुरोहितम्॥ १०॥ चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः। धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्॥ ११॥ कथं दशरथाज्जातो भवेद्राज्यापहारकः। राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि॥ १२॥ ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः। लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा॥ १३॥ अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि। इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः॥ १४॥ यद्धि मात्रा कृतं पापं नाहं तदपि रोचये। इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः॥ १५॥ राममेवानुगच्छामि राजा स द्विपदां वरः। त्रयाणामपि लोकानां राज्यमर्हति राघवः॥ १६॥ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः। हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः॥ १७॥ यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात्। वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा॥ १८॥ सर्वोपायं च वर्तिष्ये विनिवर्तयितुं वनात्। समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम्॥ १९॥ विष्टिकर्मान्तिकाः सर्वे मार्गशोधकरक्षकाः। प्रस्थापिता मया पूर्वं यत्रापि मम रोचते॥ २०॥ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः। समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्॥ २१॥ तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्। यात्रामाज्ञापय क्षिप्रं बलं चैव समानय॥ २२॥ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना। प्रहृष्टः सोऽदिशत् सर्वं यथासन्दिष्टमिष्टवत्॥ २३॥ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च। श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने॥ २४॥ ततो योधाङ्गनाः सर्वा भ र्तॄन् सर्वान् गृहे गृहे। यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः॥ २५॥ ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च महाजवैः। सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन्॥ २६॥ सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ। रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्॥ २७॥ भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः। रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः॥ २८॥ स राघवः सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः। गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन् भरतोऽब्रवीत्तदा॥ २९॥ तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान्। आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय॥ ३०॥ स सूतपुत्रो भरतेन सम्यगाज्ञापितः सम्परिपूर्णकामः। शशास सर्वान् प्रकृतिप्रधानान् बलस्य मुख्यांश्च सुहृज्जनं च॥ ३१॥ ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः। अयूयुजन्नुष्ट्ररथान् खरांश्च नागान् हयांश्चैव कुलप्रसूतान्॥ ३२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सेनाप्रस्थापनं नाम द्व्यशीतितमः सर्गः॥२-८२॥