home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

एकाशीतितमः सर्गः ॥२-८१॥

॥सभास्थानम्॥

[ प्रातर्मङ्गलवाद्यघोषमाकर्ण्य भरतस्य दुःखं तत्सन्नि- वर्त्य विलपनं राजसभामागतेन वसिष्ठेन मन्त्रि- प्रभृतीनानायितुं दूतानां प्रेषणम् ]

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः। तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः॥ १॥ सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः। दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान्॥ २॥ स तूर्यघोष स्सुमहान् दिवमापूरयन्निव। भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत्॥ ३॥ ततः प्रबुद्धो भरतस्तं घोषं सन्निवर्त्य च। नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्॥ ४॥ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्। विसृज्य मयि दुःखानि राजा दशरथो गतः॥ ५॥ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः। परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले॥ ६॥ यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम्। अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम्॥ ७॥ इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम्। कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा॥ ८॥ तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित्। सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः॥ ९॥ शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम्। सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत॥ १०॥ स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम्। अध्यास्त सर्ववेदज्ञो दूताननुशशास च॥ ११॥ ब्राह्मणान् क्षत्रियान् वैश्यनमात्यान् गणवल्लभान्। क्षिप्रमानयताऽव्यग्राः कृत्यमात्ययिकं हि नः॥ १२॥ सराजपुत्रं शत्रुघ्नं भरतं च यशस्विनम्। युधाजितं सुमन्त्रं च ये च तत्र हिता जनाः॥ १३॥ ततो हलहलाशब्दः सुमहान् समपद्यत। रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्॥ १४॥ ततो भरतमायान्तं शतक्रतुमिवामराः। प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा॥ १५॥ ह्रद इव तिमिनागसंवृतः स्तिमितजलो मणिशङ्खशर्करः। दशरथसुतशोभिता सभा सदशरथेव बभौ यथा पुरा॥ १६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सभास्थानं नाम एकाशीतितमः सर्गः॥२-८१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध