home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अशीतितमः सर्गः ॥२-८०॥

॥मार्गसंस्कारः॥

[ अयोध्यातो गङ्गातटमभिव्याप्य सुरम्यशिविरकूपादि- युतस्य सुखदराजमार्गस्य निर्माणम् ]

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः। स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा॥ १॥ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः। तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः॥ २॥ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा। समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे॥ ३॥ स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्। अशोभत महावेगः समुद्र इव पर्वणि॥ ४॥ ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः। करणैर्विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे॥ ५॥ लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च। जनायांचक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान्॥ ६॥ अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन्। केचित् कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्वचित् क्वचित्॥ ७॥ अपरे वीरणस्तम्बान् बलिनो बलवत्तराः। विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः॥ ८॥ अपरेऽपूरयन् कूपान् पांसुभिः श्वभ्रमायतम्। निम्नभागान्स्ततः केचित् समान्श्चक्रुः समन्ततः॥ ९॥ बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तदा। बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा॥ १०॥ अचिरेणैव कालेन परिवाहान् बहूदकान्। चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून्॥ ११॥ निर्जलेषु च देशेषु खानयामासुरुत्तमान्। उदपानान् बहुविधान् वेदिकापरिमण्डितान्॥ १२॥ स सुधाकुट्टिमतलः प्रपुष्पितमहीरुहः। मत्तोद्घुष्टद्विजगणः पताकाभिरलङ्कृतः॥ १३॥ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः। बह्वशोभत सेनायाः पन्थाः सुरपथोपमः॥ १४॥ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः। रमणीयेषु देशेषु बहुस्वादुफलेषु च॥ १५॥ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः। भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्॥ १६॥ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः। निवेशान् स्थापयामासुर्भरतस्य महात्मनः॥ १७॥ बहुपांसुचयाश्चापि परिखापरिवारिताः। तत्रेन्द्रनीलप्रतिमाः प्रतोलीवरशोभिताः॥ १८॥ प्रासादमालावितताः सौधप्राकारसंवृताः। पताकाशोभिताः सर्वे सुनिर्मितमहापथाः॥ १९॥ वितर्दिभिरिवाकाशे विटङ्काग्रविमानकैः। समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः॥ २०॥ जाह्नवीं तु समासाद्य विविधद्रुमकाननाम्। शीतलामलपानीयां महामीनसमाकुलाम्॥ २१॥ सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते। नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे मार्गसंस्कारो नाम अशीतितमः सर्गः॥२-८०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध