एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्। प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्॥ १॥ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे। यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि॥ २॥ इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्। अब्रवीद्भरत श्श्रीमान्निषादाधिपतिं पुनः॥ ३॥ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह। गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः॥ ४॥ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः। अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः॥ ५॥ दाशास्त्वानुगमिष्यन्ति धन्विनः सुसमाहिताः। अहं त्वानुगमिष्यामि राजपुत्र महायशः॥ ६॥ कच्छिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः। इयं ते महती सेना शङ्कां जनयतीव मे॥ ७॥ तमेवमभिभाषन्तमाकाश इव निर्मलः। भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत्॥ ८॥ मा भूत् स कालो यत् कष्टं न मां शङ्कितुमर्हसि। राघवः स हि मे भ्राता ज्येष्ठः पितुसमो मतः॥ ९॥ तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्। बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते॥ १०॥ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम्। पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः॥ ११॥ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले। अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि॥ १२॥ शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति। यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि॥ १३॥ एवं सम्भाषमाणस्य गुहस्य भरतं तदा। बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत॥ १४॥ सन्निवेश्य स तां सेनां गुहेन परितोषितः। शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत्॥ १५॥ रामचिन्तामयः शोको भरतस्य महात्मनः। उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः॥ १६॥ अन्तर्दाहेन दहनः सन्तापयति राघवम्। वनदाहाभिसन्तप्तं गूढोऽग्निरिव पादपम्॥ १७॥ प्रसृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम्। यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतो हिमम्॥ १८॥ ध्याननिर्दरशैलेन विनिःश्वसितधातुना। दैन्यपादपसङ्घेन शोकायासाधिशृङ्गिणा॥ १९॥ प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना। आक्रान्तो दुःखशैलेन महता कैकयीसुतः॥ २०॥ विनिःश्वसन् वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः। शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथहतो यथर्षभः॥ २१॥ गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः। सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे गुहसमागमो नाम पञ्चाशीतितमः सर्गः॥२-८५॥