home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

एकषष्टितम सर्गः ॥२-६१॥

॥कौसल्योपालंभः॥

[कौसल्याया राजानं प्रति सविलापमुपालम्भः]

वनं गते धर्मपरे रामे रमयतां वरे। कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्॥ १॥ यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः। सानुक्रोशो वदान्यश्च प्रियवादी च राघवः॥ २॥ कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया। दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः॥ ३॥ सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता। कथमुष्णं च शीतं च मैथिली प्रसहिष्यते॥ ४॥ भुक्त्वाऽशनं विशालाक्षी सूपदंशान्वितं शुभम्। वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते॥ ५॥ गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता। कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्॥ ६॥ महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः। भुजं परिघसङ्काशमुपधाय महाबलः॥ ७॥ पद्मवर्णं सुकेशान्तं पद्मनिःश्वसमुत्तमम्। कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्॥ ८॥ वज्रसारमयं नूनं हृदयं मे न संशयः। अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा॥ ९॥ यत्त्वया करुणं कर्म व्यपोह्य मम बान्धवाः। निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने॥ १०॥ यदि पञ्चदशे वर्षे राघवः पुनरेष्यति। जह्याद्राज्यं च कोशं च भरतो नोपलक्षयते॥ ११॥ भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्। ततः पश्चात् समीक्षन्ते कृतकार्या द्विजर्षभान्॥ १२॥ तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः। न पश्चात्तेऽनुमन्यन्ते सुधामपि सुरोपमाः॥ १३॥ ब्राह्मणेष्वपि तृप्तेषु भुक्तशेषं द्विजातयः। नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः॥ १४॥ एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते। भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते॥ १५॥ नापरेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति। एवमेव नरव्याघ्रः परलीढं न मन्यते॥ १६॥ हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः। नैतानि यातयामानि कुर्वन्ति पुनरध्वरे॥ १७॥ तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव। नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्॥ १८॥ नैवंविधमसत्कारं राघवो मर्षयिष्यति। बलवानिव श्र्दूलो वालधेरभिमर्शनम्॥ १९॥ नैतस्य सहिता लोका भयं कुर्युर्महामृधे। अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत्॥ २०॥ नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः। युगान्त इव भूतानि सागरानपि निर्दहेत्॥ २१॥ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः। स्वयमेव हतः पित्रा जलजेनात्मजो यथा॥ २२॥ द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः। यदि ते धर्मनिरते त्वया पुत्रे विवासिते॥ २३॥ गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः। तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते॥ २४॥ तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः। न वनं गन्तुमिच्छामि सर्वथा निहता त्वया॥ २५॥ हतं त्वया राज्यमिदं सराष्ट्रं हतस्तथाऽत्मा सह मन्त्रिभिश्च। हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ॥ २६॥ इमां गिरं दारुणशब्द संश्रितां निशम्य राजा विमुमोह दुःखितः। ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कौसल्योपालंभो नाम एकषष्टितमः सर्गः॥२-६१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध