home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

द्विषष्टितम सर्गः ॥२-६२॥

॥कौसल्याप्रसादनम्॥

[दुःखितेन राज्ञा साञ्जलिबन्धं कौसल्यायाः प्रसादनं कौसल्यया तस्य पादयोः प्रणिपत्य क्षमाप्रार्थनम्]

एवं तु क्रुद्धया राजा राममात्रा सशोकया। श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः॥ १॥ चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः। अथ दीर्घीण कालेन संज्ञामाप परन्तपः॥ २॥ स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्श्वसन्। कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत्॥ ३॥ तस्य चिन्तयमानस्य प्रत्याभात् कर्म दुष्कृतम्। यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना॥ ४॥ विमनास्तेन शोकेन रामशोकेन च प्रभुः। द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत॥ ५॥ दह्यामानः स शोकाभ्यां कौसल्यामाह भूपतिः। वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः॥ ६॥ प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः। वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि॥ ७॥ भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा। धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्॥ ८॥ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा। नार्हसे विप्रियं वक्तुं दुखिःतापि सुदुःखितम्॥ ९॥ तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्। कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्॥ १०॥ सा मूर्ध्नि बद्धवा रुदती राज्ञः पद्ममिवाञ्जलिम्। सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः॥ ११॥ प्रसीद शिरसा याचे भूमौ निपतितास्मि ते। याचितास्मि हता देव हन्तव्याऽहं न हि त्वया॥ १२॥ नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता। उभयोर्लोकयोर्वीर पत्या या सम्साद्यते॥ १३॥ जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्। पुत्रशोकार्तया तत्तु मया किमपि भाषितम्॥ १४॥ शोको नाशयते धैर्यं शोको नाशयते श्रुतम्। शोको नाशयते सर्वं नास्ति शोकसमो रिपुः॥ १५॥ शक्यमापतितः सोढुं प्रहारो रिपुहस्ततः। सोढुंमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते॥ १६॥ वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते। य शोकहतहर्षायाः पञ्चवर्षोपमो मम॥ १७॥ तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते। नदीनामिव वेगेन समुद्रसलिलं महत्॥ १८॥ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः। मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत॥ १९॥ अथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः। शोकेन च समाक्रान्तो निद्राया वशन्तोमेयिवान्॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कौसल्याप्रसादनं नाम द्विषष्टितमः सर्गः॥२-६२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध