home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

षष्टितमः सर्गः ॥२-६०॥

॥कौसल्यासमाश्वासनम्॥

[कौसल्याया विलापः सुमन्त्रेण तस्या आश्वासनं च]

ततो भूतोपसृष्टेव वेपमाना पुनः पुनः। धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्॥ १॥ नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः। तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम्॥ २॥ निवर्तय रथं शीघ्रं दण्डकान्नय मामपि। अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्॥ ३॥ बाष्पवेगोपहतया स वाचा सज्जमानया। इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत्॥ ४॥ त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा। अवधूय च सन्तापं वने वत्स्यति राघवः॥ ५॥ लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने। आराधयति धर्मज्ञः परलोकं जितेन्द्रियः॥ ६॥ विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव। विस्रम्भं लभतेऽभीता रामे विन्यस्तमानसा॥ ७॥ नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते। उचितेव प्रवासानां वैदेही प्रतिभाति मा॥ ८॥ नगरोपवनं गत्वा यथा स्म रमते पुरा। तथैव रमते सीता निर्जनेषु वनेष्वपि॥ ९॥ बालेव रमते सीता बालचन्द्रनिभानना। रामा रामे ह्यधीनात्मा विजनेऽपि वने सती॥ १०॥ तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम्। अयोध्यापि भवेत्तस्या रामहीना तथा वनम्॥ ११॥ पथि पृच्छति वैदेही ग्रामांश्च नगराणि च। गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि॥ १२॥ रामं हि लक्ष्मणं वापि पृष्ट्वा जानाति जानकी। अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता॥ १३॥ इदमेव स्मराम्यस्याः सहसैवोपजल्पितम्। कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति माम्॥ १४॥ ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपत्स्थितम्। ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत्॥ १५॥ अध्वना वातवेगेन सम्भ्रमेणातपेन च। न विगच्छति वैदेह्याश्चन्द्रांशु सदृशी प्रभा॥ १६॥ सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्। वदनं तद्वदान्याया वैदेह्या न विकम्पते॥ १७॥ अलक्तरसरक्ताभावलक्तरसवर्जितौ। अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ॥ १८॥ नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी। इदानीमपि वैदेही तद्रागान्नयस्त भूषणा॥ १९॥ गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता। नाहारयति सन्त्रासं बाहू रामस्य संश्रिता॥ २०॥ न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः। इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्॥ २१॥ विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवत्स्थिताः। वने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते॥ २२॥ तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता। न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कौसल्यासमाश्वासनं नाम षष्टितमस्सर्गः॥२-६०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध