home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

एकोनषष्टितमः सर्गः ॥२-५९॥

॥दशरथविलापः॥

[श्रीरामस्य शोकेन समेषां जडचेतनानामयोध्यापुर्याश्च दुरवस्थाया वर्णनं राज्ञो दशरथस्य विलापश्च]

इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम्। ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत्॥ १॥ तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लबः। कथयामास भूयोऽपि रामसन्देशविस्तरम्॥ २॥ जटाः कृत्वा महाराज चीरवल्कलधारिणौ। गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ॥ ३॥ अग्रतो लक्ष्मणो याति पालयन् रघुनन्दनम्। अनन्तरं च सीताथ राघवो रघुनन्दनः॥ ४॥ तांस्तथा गच्छतो दृष्ट्वा निवृत्तोऽस्म्यवशस्तदा। मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि॥ ५॥ उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम्। उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम्॥ ६॥ प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्। गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून्॥ ७॥ आशया यदि मां रामः पुनः शब्दापयेदिति। विषये ते महाराज रामव्यसनकर्शिताः॥ ८॥ अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः। उपतप्तोदका नद्यः पल्वलानि सरांसि च॥ ९॥ परिशुष्कपलाशानि वनान्युपवनानि च। न च सर्पन्ति सत्त्वानि व्याला न प्रचरन्ति च॥ १०॥ रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्। लीनपुष्करपत्राश्च नद्यश्च कलुषोदकाः॥ ११॥ सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः। जलजानि च पुष्पाणि माल्यानि स्थलजानि च॥ १२॥ नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम्। अत्रोद्यानानि शून्यानि प्रलीनविहगनि च॥ १३॥ न चाभिरामानारामान् पश्यामि मनुजर्षभ। प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति॥ १४॥ नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः। देव राजरथं दृष्ट्वा विना राममिहागतम्॥ १५॥ दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः। हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्॥ १६॥ हाहाकारकृता नार्यो रामादर्शनकर्शिताः। आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः॥ १७॥ अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः। नामित्राणां न मित्राणामुदासीनजनस्य च॥ १८॥ अहमार्ततया किञ्चिद्विशेषमुपलक्षये। अप्रहृष्टमनुष्या च दीननागतुरङ्गमा॥ १९॥ आर्तस्वरपरिम्लाना विनिः श्वसितनिःस्वना। निरानन्दा महाराज रामप्रव्राजनातुरा॥ २०॥ कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा। सूतस्य वचनं श्रुत्वा राजा परमदीनया॥ २१॥ बाष्पोपहतया वाचा तं सूतमिदमब्रवीत्। कैकेय्या हि नियुक्तेन पापाभिजनभावया॥ २२॥ न मया मन्त्रकुशलैर्वृद्धैः सह समर्थितम्। न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः॥ २३॥ मयायमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः। भवितव्यतया नूनमिदं वा व्यसनं महत्॥ २४॥ कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया। सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम्॥ २५॥ त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम्। यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम्॥ २६॥ न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम्। अथवापि महाबाहुर्गतो दूरं भविष्यति॥ २७॥ मामेव रथमारोप्य शीघ्रं रामाय दर्शय। वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः॥ २८॥ यदि जीवामि साध्वेनं पश्येयं सीतया सह। लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्॥ २९॥ रामं यदि न पश्येयं गमिष्यामि यमक्षयम्। अतो नु किं दुःखतरं सोऽहमिक्ष्वाकुनन्दनम्॥ ३०॥ इमामवस्थामापन्नो नेह पश्यामि राघवम्। हा राम रामानुज हा हा वैदेहि तपस्विनि॥ ३१॥ न मां जानीत दुःखेन म्रियमाणतमनाथवत्। स तेन राजा दुःखेन भृशमर्पितचेतनः॥ ३२॥ अवगाढः सुदुष्पारं शोकसागरमब्रवीत् रामशोकमहावेगः सीताविरहपारगः॥ ३३॥ श्वसितोर्मि महावर्तो बाष्पफेनजालाविलः। बाहुविक्षेपमीनौघो विक्रन्दित महास्वनः॥ ३४॥ प्रकीर्णकेशशैवालः कैकेयीबडबामुखः। ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः॥ ३५॥ वरवेलो नृशंसाया रामप्रव्राजनायतः। यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना। दुस्तरो जीवता देवि मयायं शोकसागरः॥ ३६॥ अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम्। इतीव राजा विलपन् महायशाः पपात तूर्णं शयने समूर्छितः॥ ३७॥ इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः। वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथविलापो नाम एकोनषष्टितमस्सर्गः॥२-५९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध