home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टपञ्चाशः सर्गः ॥२-५८॥

॥रामसंदेशाख्यानम्॥

[दशरथस्याज्ञया सुमन्त्रेण श्रीरामलक्ष्मणयोः संदेशस्य श्रावणम्]

प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतस्मृतिः। अथाऽजुहाव तं सूतं रामवृत्तान्तकारणात्॥ १॥ अथ सूतो महाराजं कृताञ्जलिरुपस्थितः। राममेवानुशोचन्तं दुःखशोकसमन्वितम्॥ २॥ वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्। विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम्॥ ३॥ राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम्। अश्रुपूर्णमुखं दीनमुवाच परमार्तवत्॥ ४॥ क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः। सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः॥ ५॥ दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः। भूमिपालात्मजो भूमौ शेते कथमनाथवत्॥ ६॥ यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः। स वत्स्यति कथं रामो विजनं वनमाश्रितः॥ ७॥ व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्। कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ॥ ८॥ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया। राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ॥ ९॥ सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममाऽत्मजौ। वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम्॥ १०॥ किमुवाच वचो रामः किमुवाच च लक्ष्मणः। सुमन्त्र वनमासाद्य किमुवाच च मैथिली॥ ११॥ आसितं शयितं भुक्तं सूत रामस्य कीर्तय। जीविष्यामहमेतेन ययातिरिव साधुषु॥ १२॥ इति सूतो नरेन्द्रेण चोदितः सज्जमानया। उवाच वाचा राजानं स बाष्पपरिरब्धया॥ १३॥ अब्रवीन्मां महाराज धर्ममेवानुपालयन्। अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च॥ १४॥ सूत मद्वचनात्तस्य तातस्य विदितात्मनः। शिरसा वन्दनीयस्य वन्द्यौ पादौ पुनः पुनः॥ १५॥ सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया। आरोग्यमविशेषेण यथार्हमभिवादनम्॥ १६॥ माता च मम कौसल्या कुशलं चाभिवादनम्। अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः॥ १७॥ धर्मनित्या यथाकालमग्न्यगारपरा भव। देवि देवस्य पादौ च देववत् परिपालय॥ १८॥ अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु। अनु राजानमार्यां च कैकेयीमम्ब कारय॥ १९॥ कुमारे भरते वृत्तिर्वर्तितव्या च राजवत्। अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर॥ २०॥ भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च। सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु॥ २१॥ वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः। पितरं यौवराज्यस्थो राज्यस्थमनुपालय॥ २२॥ अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः। कुमार राज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात्॥ २३॥ अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन्। मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी॥ २४॥ इत्येवं मां महराज ब्रुवन्नेव महायशाः। रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत्॥ २५॥ लक्ष्मणस्तु सुसङ्कृद्धो निःश्वसन् वाक्यमब्रवीत्। केनायमपराधेन राजपुत्रो विवासितः॥ २६॥ राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम्। कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः॥ २७॥ यदि प्रव्राजितो रामो लोभकारणकारितम्। वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्॥ २८॥ इदं तावद्यथाकाममीश्वरस्य कृते कृतम्। रामस्य तु परित्यागे न हेतुमुपलक्षये॥ २९॥ असमीक्षय समारब्धं विरुद्धं बुद्धिलाघवात्। जनयिष्यति सङ्क्रोशं राघवस्य विवासनम्॥ ३०॥ अहं तावन्महाराजे पितृत्वं नोपलक्ष्ये। भ्राता भर्ता च बन्धुश्च पिता च मम राघवः॥ ३१॥ सर्वर्लोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्। सर्वलोकोऽनुरज्येत कथं चानेन कर्मणा॥ ३२॥ सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम्। सर्वलोकं विरुध्येमं कथं राजा भविष्यसि॥ ३३॥ जानकी ते महाराज निःश्वसन्ती तपस्विनी। भूतोपहतचित्तेव विष्ठिता विस्मिता स्मिता॥ ३४॥ अदृष्टपूर्वव्यसना राज्यपुत्री यशस्विनी। तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत्॥ ३५॥ उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता। मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा॥ ३६॥ तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः। तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम्॥ ३७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामसंदेशाख्यानं नाम अष्टपञ्चाशस्सर्गः॥२-५८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध