कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह। रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः॥ १॥ भरद्वाजाभिगमनं प्रयागे च सभाजनम्। आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम्॥ २॥ अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्। अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः॥ ३॥ स वनानि सुगन्धीनि सरितश्च सरांसि च। पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च॥ ४॥ ततः सायाह्नसमये तृतीयेऽहनि सारथिः। अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह॥ ५॥ स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः। सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः॥ ६॥ कच्चिन्न सगजा साश्वा सजना सजनाधिपा। रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी॥ ७॥ इति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः। नगरद्वारमासाद्य त्वरितः प्रविवेश ह॥ ८॥ सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः। क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः॥ ९॥ तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्। अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना॥ १०॥ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः। अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः॥ ११॥ शुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम्। हताः स्म खलु ये नेह पश्याम इति राघवम्॥ १२॥ दानयज्ञविवाहेषु समाजेषु महत्सु च। न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा॥ १३॥ किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्। इति रामेण नगरं पितृवत् परिपालितम्॥ १४॥ वातायनगतानां च स्त्रीणामन्वन्तरापणम्। रामशोकाभितप्तानां शुश्राव परिदेवनम्॥ १५॥ स राजमार्गमध्येन सुमन्त्रः पिहिताननः। यत्र राजा दशरथस्तदेवोपययौ गृहम्॥ १६॥ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च। कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः॥ १७॥ हर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम्। हाहाकारकृता नार्यो रामदर्शनकर्शिताः॥ १८॥ आयतैविमलैर्नेत्रैरश्रुवेगपरिप्लुतैः। अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः॥ १९॥ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः। रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्॥ २०॥ सह रामेण निर्यातो विना राममिहागतः। सूतः किन् नाम कौसल्यां क्रोशन्तीं प्रतिवक्ष्यति॥ २१॥ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्। आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति॥ २२॥ सत्यरूपं तु तद्वाक्यं राज्ञ: स्त्रीणां निशामयन्। प्रदीप्तमिव शोकेन विवेश सहसा गृहम्॥ २३॥ स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्। पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे॥ २४॥ अभिगम्य तमासीनं नरेन्द्रेमभिवाद्य च। सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्॥ २५॥ स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः। मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः॥२६॥ ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ। उच्छ्रित्य बाहू चुक्रोश नृपतौ पतिते क्षितौ॥ २७॥ सुमित्रया तु सहिता कौसल्या पतितं पतिम्। उत्थापयामास तदा वचनं चेदमब्रवीत्॥ २८॥ इमं तस्य महाभाग दूतं दुष्करकारिणः। वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे॥ २९॥ अद्यैवमनयं कृत्वा व्यपत्रपसि राघव। उत्तिष्ठ सुकृतं तेऽस्तु शोके नस्या सहायता॥ ३०॥ देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्। नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम्॥ ३१॥ सा तथोक्त्वा महाराजं कौसल्या शोकलालसा। धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी॥ ३२॥ विलपतीं तथा दृष्ट्वा कौसल्यां पतितां भुवि। पतिं चावेक्ष्य ताः सर्वाः समन्ताद्रुरुदुः स्त्रियः॥ ३३॥ तत स्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः। स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम्॥ ३४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सुमन्त्रोपावर्तनं नाम सप्तपञ्चाशस्सर्गः॥२-५७॥