अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्। प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः॥ १॥ सौमित्रे श्रुणु वन्यानां वल्गु व्याहरतां स्वनम्। सम्प्रतिष्ठामहे काल प्रस्थानस्य परन्तप॥ २॥ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः। जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्॥ ३॥ तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्। पन्थानमृषिणादिष्टं चित्रकूटस्य तं ययुः॥ ४॥ ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह। सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्॥ ५॥ आदिप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्। स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये॥ ६॥ पश्य भल्लातकान् बिल्वान् वानरैरुपसेवितान्। फलपुष्पैरवनतान् नूनं शक्ष्याम जीवितुम्॥ ७॥ पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण। मधूनि मधुकारीभिः सम्भृतानि नगे नगे॥ ८॥ एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति। रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे॥ ९॥ मातङ्गयूथानुसृतं पक्षिसंङ्घानुनादितम्। चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्॥ १०॥ समभूमितले रम्ये द्रुमैर्बहुभिरावृते। पुण्ये रंस्यामहे तात चित्रकूटस्य कानने॥ ११॥ ततस्तौ पादचारेण गच्छन्तौ सह सीतया। रम्यमासेदतुः शैलं चित्रकूटं मनोरमम्॥ १२॥ तन्तु पर्वतमासाद्य नानापक्षिगणायुतम्। बहुमूलफलं रम्यं सम्पन्नं सरसोदकम्॥ १३॥ मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायुतः। बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे॥ १४॥ मुनयश्च महात्मानो वसन्त्यस्मि शिलोच्चये। अयं वासो भवेत्तावदत्र सौम्य रमेमहि॥ १५॥ इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः। अभिगम्याश्रमं सर्वे वाल्मीकि मभिवादयन्॥ १६॥ तान् महर्षिः प्रमुदितः पूजयामास धर्मवित्। अस्यतामिति चोवाच स्वागतं तु निवेद्य च॥ १७॥ ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः। सन्निवेद्य यथान्याय मात्मानमृषये प्रभुः॥ १८॥ लक्ष्मणानय दारूणि दृढानि च वराणि च। कुरुष्वाऽवसथं सौम्य वासे मेऽभिरतं मनः॥ १९॥ तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान्। आजहार ततश्चक्रे पर्णशालामरिन्दमः॥ २०॥ तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम्। शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्॥ २१॥ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्। कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः॥ २२॥ मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण। कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर॥ २३॥ भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा। चकार स यथोक्तं च तं रामः पुनरब्रवीत्॥ २४॥ ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम्। त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम्॥ २५॥ स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान्। अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि॥ २६॥ तन्तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्। लक्ष्मण: पुरुषव्याघ्रमथ राघवमब्रवीत्॥ २७॥ अयं कृष्णः समस्ताग्ङ: श्रृत: कृष्णमृगो मया। देवतां देवसङ्काश यजस्व कुशलो ह्यसि॥ २८॥ राम: स्नात्वा तु नियतो गुणवान् जप्यकोविदः। सङ्ग्रहेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान्॥ २९॥ इष्ट्वा देवगणान् सर्वान् विवेश सदनं शुचिः। बभूव च मनोह्लादो रामस्यामिततेजसः॥ ३०॥ वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च। वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन्॥ ३१॥ जपं च न्यायत कृत्वा स्नात्वा नद्यां यथाविधि। पापसंशमनं रामश्चकार बलिमुत्तमम्॥ ३२॥ वेदिस्थलविधानानि चैत्यान्यायतनानि च। आश्रमस्यानुरूपाणि स्थापयामास राघवः॥ ३३॥ वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि। अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः॥ ३४॥ तौ तर्पयित्वा भूतानि राघवौ सह सीतया। तदा विविशतुः शालां सुशुभां शुभलक्षणौ॥ ३५॥ तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां विवाताम्। वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम्॥ ३६॥ अनेकनानामृगपक्षिसङ्कुले विचित्रपत्रस्तबकैर्द्रुमैर्युते। वनोत्तमे व्यालमृगानुनादिते तदा विजह्रुः सुसुखं जितेन्द्रियाः॥ ३७॥ सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम्। ननन्द रामो मृगपक्षिजुष्टां जहौ च दुखं पुरविप्रवासात्॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे चित्रकूटनिवासो नाम षट्पञ्चाशस्सर्गः॥२-५६॥