प्रभातायां नु शर्वर्यां पृथुवक्षा महायशाः। उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्॥ १॥ भास्करोदयकालोऽसौ गता भगवती निशा। असौ सुकृष्णो विहगः कोकिलस्तात कूजति॥ २॥ बर्हिणानां च निर्घोषः श्रूयते नदतां वने। तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम्॥ ३॥ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः। गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः॥ ४॥ स तु रामस्य वचनं निशम्य प्रतिगृह्य च। स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत्॥ ५॥ अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम्। सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर॥ ६॥ तं निशम्य गुहादेशं गुहामात्यगणो महान्। उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत्॥ ७॥ ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत्। उपस्थितेयं नौर्देव भूयः किं करवाणि ते॥ ८॥ तवामरसुतप्रख्य तर्तुं सागरगां नदीम्। नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत॥ ९॥ अथोवाच महातेजा रामो गुहमिदं वचः। कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति॥ १०॥ ततः कलापान् सन्नह्य खड्गौ बद्ध्वा च धन्विनौ। जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ॥ ११॥ राममेव तु धर्मज्ञमुपगम्य विनीतवत्। किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्॥ १२॥ ततोऽब्रवीद्दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तमदक्षिणेन। सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः॥ १३॥ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम। रथं विहाय पद्भ्यां तु गमिष्यामो महावनम्॥ १४॥ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः। सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्॥ १५॥ नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्। तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने॥ १६॥ न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः। मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्॥ १७॥ सह राघव वैदेह्या भ्रात्रा चैव वने वसन्। त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव॥ १८॥ वयं खलु हता नाम यत्त्वयाप्युपवञ्चिताः। कैकेय्या वशमेष्यामः पापाया दुःखभागिनः॥ १९॥ इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा। दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम्॥ २०॥ ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्। रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्॥ २१॥ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये। यथा दशरथो राजा मां न शोचेत्तथा कुरु॥ २२॥ शोकोपहतचेताश्च वृद्धश्च जगतीपतिः। कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते॥ २३॥ यद्यदाज्ञापयेत् किञ्चित् स महात्मा महीपतिः। कैकेय्याः प्रियकामार्थं कार्यं तदविशङ्कया॥ २४॥ एतदर्थं हि राज्यानि प्रशासति नराधिपाः। यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते॥ २५॥ यद्यथा स महाराजो नालीकमधिगच्छति। न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा॥ २६॥ अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्। ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः॥ २७॥ नैवाहमनुशोचामि लक्ष्मणो न च मैथिली। अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च॥ २८॥ चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः। लक्ष्मणं मां च सीतां च द्रक्ष्यसे क्षिप्रमागतान्॥ २९॥ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे। अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः॥ ३०॥ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्। सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च॥ ३१॥ ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय। आगतश्चापि भरतः स्थाप्यो नृपमते पदे॥ ३२॥ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च। अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति॥ ३३॥ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे। तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः॥ ३४॥ यथा च तव कैकेयी सुमित्रा च विशेषतः। तथैव देवी कौसल्या मम माता विशेषतः॥ ३५॥ तातस्य प्रियकामेन यौवराज्यमवेक्षता। लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम्॥ ३६॥ निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः। तत् सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत्॥ ३७॥ यदहं नोपचारेण ब्रूयां स्नेहादविक्लवम्। भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि॥ ३८॥ कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्। तव तावद्वियोगेन पुत्रशोकाकुलामिव॥ ३९॥ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः। विनारामं रथं दृष्ट्वा विदीर्येतापि सा पुरी॥ ४०॥ दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्। सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे॥ ४१॥ दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्। चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः॥ ४२॥ दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने। प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्॥ ४३॥ आर्तनादो हि यः पौरैरुन्मुक्तस्त्वत्प्रवासने। सरथं मां निशाम्यैव कुर्युः शतगुणं ततः॥ ४४॥ अहं किं चापि वक्ष्यामि देवीं तव सुतो मया। नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति॥ ४५॥ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्। कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः॥ ४६॥ मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः। कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः॥ ४७॥ तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ। वनवासानुयानाय मामनुज्ञातुमर्हसि॥ ४८॥ यदि मे याचमानस्य त्यागमेव करिष्यसि। सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया॥ ४९॥ भविष्यन्ति वने यानि तपोविघ्नकराणि ते। रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव॥ ५०॥ त्वत्कृते न मयावाप्तं रथचर्याकृतं सुखम्। आशंसे त्वत्कृते नाहं वनवासकृतं सुखम्॥ ५१॥ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः। प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः॥ ५२॥ इमे चापि हया वीर यदि ते वनवासिनः। परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्॥ ५३॥ तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्। अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्॥ ५४॥ न हि शक्या प्रवेष्टुं सा ममायोध्या त्वया विना। राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा॥ ५५॥ वनवासे क्षयं प्राप्ते ममैष हि मनोरथः। यदनेन रथेनैव त्वां वहेयं पुरीं पुनः॥ ५६॥ चतुर्दश हि वर्षाणि सहितस्य त्वया वने। क्षणभूतानि यास्यन्ति शतसङ्ख्यान्यतोऽन्यथा॥ ५७॥ भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि। भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि॥ ५८॥ एवं बहुविधं दीनं याचमानं पुनः पुनः। रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्॥ ५९॥ जानामि परमां भक्तिं मयि ते भर्तृवत्सल। शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः॥ ६०॥ नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी। कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः॥ ६१॥ परितुष्टा हि सा देवी वनवासं गते मयि। राजानं नातिशङ्केत 'मिथ्यावादीति धार्मिकम्॥ ६२॥ एष मे प्रथमः कल्पो यदम्बा मे यवीयसी। भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्॥ ६३॥ मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज। सन्दिष्टश्चासि यानर्थांस्तां स्तान् ब्रूयास्तथा तथा॥ ६४॥ इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः। गुहं वचनमक्लीबो रामो हेतुमदब्रवीत्॥ ६५॥ नेदानीं गुह योग्योऽयं वासो मे सजने वने। आवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः॥ ६६॥ सोऽहं गृहीत्वा नियमं तपस्विजनभूषणम्। हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च॥ ६७॥ जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय। तत् क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्॥ ६८॥ लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः। दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत्॥ ६९॥ तौ तदा चीरवसनौ जटामण्डलधारिणौ। आशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ॥ ७०॥ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः। व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत्॥ ७१॥ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा। भवेथा गुह राज्यं हि दुरारक्षतमं मतम्॥ ७२॥ ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः। जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः॥ ७३॥ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः। तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्॥ ७४॥ आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः। सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्॥ ७५॥ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्। आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः॥ ७६॥ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः। ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्॥ ७७॥ राघवोऽपि महातेजा नावमारुह्य तां ततः। ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः॥ ७८॥ आचम्य च यथाशास्त्रं नदीं तां सह सीतया। प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः॥ ७९॥ अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्। आस्थाय नावं रामस्तु चोदयामास नाविकान्॥ ८०॥ ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता। शिवस्फ्यवेगाभिहता गङ्गासलिलमत्यगात्॥ ८१.॥ मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता। वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्॥ ८२॥ पुत्रो दशरथस्यायं महाराजस्य धीमतः। निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः॥ ८३॥ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने। भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति॥ ८४॥ ततस्त्वां देवि सुभगे क्षेमेण पुनरागता। यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी॥ ८५॥ त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे। भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे॥ ८६॥ सा त्वां देवि नमस्यामि प्रशंसामि च शोभने। प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते॥ ८७॥ गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम्। ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया॥ ८८॥ सुराघटसहस्रेण मांसभूतौदनेन च। यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता॥ ८९॥ यानि त्वत्तीरवासीनि दैवतानि च वसन्ति च। तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च॥ ९०॥ पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः। अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे॥ ९१॥ तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता। दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्॥ ९२॥ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः। प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः॥ ९३॥ अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्। भव संरक्षणार्थाय सजने विजनेऽपि वा॥ ९४॥ अवश्यं रक्षणं कार्यमदृष्टे विजने वने। अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु॥ ९५॥ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्। अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ॥ ९६॥ न हि तावदतिक्रान्ता सुकरा काचन क्रिया। अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति॥ ९७॥ प्रनष्टजनसम्बाधं क्षेत्रारामविवर्जितम्। विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति॥ ९८॥ श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः। अनन्तरं च सीताया राघवो रघुनन्दनः॥ ९९॥ गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य। अध्वप्रकर्षाद्विनिवृत्तदृष्टि र्मुमोच बाष्पं व्यथितस्तपस्वी॥ १००॥ स लोकपालप्रतिमप्रभाव स्तीर्त्वा महात्मा वरदो महानदीम्। ततः समृद्धान् शुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत्॥ १०१॥ तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम्। आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काल्ये ययतुर्वनस्पतिम्॥ १०२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे गङ्गातरणं नाम द्विपञ्चाश स्सर्गः॥२-५२॥