तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्। गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत्॥ १॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता। प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम्॥ २॥ उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः। गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्॥ ३॥ न हि रामात् प्रियतमो ममास्ति भुवि कश्चन। ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे॥ ४॥ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमुहद्यशः। धर्मावाप्तिं च विपुलामर्थकामौ च पुष्कलौ॥ ५॥ सोऽहं प्रियसखं रामं शयानं सह सीतया। रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह॥ ६॥ न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा। चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि॥ ७॥ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ। नात्र भीता वयं सर्वे धर्ममेवानुपश्यता॥ ८॥ कथं दशरथौ भूमौ शयाने सह सीतया। शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा॥ ९॥ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि। तं पश्य सुखसंविष्टं तृणेषु सह सीतया॥ १०॥ यो मन्त्रतपसा लब्धो विविधैश्च पराश्रमैः। एको दशरथस्येष्टः पुत्रः सदृशलक्षणः॥ ११॥ अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति। विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति॥ १२॥ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः। निर्घोषोपरतं तात मन्ये राजनिवेशनम्॥ १३॥ कौशल्या चैव राजा च तथैव जननी मम। नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्॥ १४॥ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया। तद् दुःखं यदि कौशल्या वीरसूर्विनशिष्यति॥ १५॥ अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा। राजव्यसनसंतप्ता सा पुरी विनशिष्यति॥ १६॥ कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः। शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः॥ १७॥ विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति। अनन्तरं च मातापि मम नाशमुपैष्यति॥ १८॥ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्। रामे राज्यमनिक्षिप्य पिता मे विनशिष्यति॥ १९॥ सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेऽप्युपस्थिते। प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्॥ २०॥ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्। हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम्॥ २१॥ रथाश्वगजसम्बाधां तूर्यनादविनादिताम्। सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्॥ २२॥ आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्। सुखिता विचरिष्यन्ति राजधानीं पितुर्मम॥ २३॥ अपि जीवेद्दशरथो वनवासात् पुनर्वयम्। प्रत्यागम्य महाभागमपि पश्येम सुव्रतम्॥ २४॥ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्। निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि॥ २५॥ परिदेवयमानस्य दुखार्तस्य महात्मनः। तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत॥ २६॥ तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः। मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे गुहलक्ष्मणजागरणं नाम एकपञ्चाश सर्गः॥ २-५१॥