स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम्। रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्॥ १॥ अद्येयं प्रथमा रात्रिर्जाता जनपदाद्बहिः। या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि॥ २॥ जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु। योगक्षेमौ हि सीताया वर्तते लक्ष्मणावयोः॥ ३॥ रात्रिं कथञ्चिदेवेमां सौमित्रे वर्तयामहे। उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः॥ ४॥ स तु संविश्य मेदिन्यां महार्हशयनोचितः। इमाः सौमित्रये रामो व्याजहार कथाः शुभाः॥ ५॥ ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण। कृतकामा तु कैकेयी तुष्टा भवितुमर्हति॥ ६॥ सा हि देवी महाराजं कैकेयी राज्यकारणात्। अपि न च्यावयेत् प्रणान् दृष्ट्वा भरतमागतम्॥ ७॥ अनाथश्च हि वृद्धश्च मया चैव विनाकृतः। किं करिष्यति कामात्मा कैकेय्या वशमागतः॥ ८॥ इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्। काम एवार्थधर्माभ्यां गरीयानिति मे मतिः॥ ९॥ को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्। छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण॥ १०॥ सुखी बत सभार्यश्च भरतः केकयीसुतः। मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत्॥ ११॥ स हि सर्वस्य राज्यस्य सुखमेकं भविष्यति। ताते च वयसातीते मयि चारण्यमास्थिते॥ १२॥ अर्थधर्मौ परित्यज्य यः काममनुवर्तते। एवमापद्यते क्षिप्रं राजा दशरथो यथा॥ १३॥ मन्ये दशरथान्ताय मम प्रव्राजनाय च। कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च॥ १४॥ अपीदानीं तु कैकेयी सौभाग्यमदमोहिता। कौसल्यां च सुमित्रां च सम्प्रबाधेत मत्कृते॥ १५॥ मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्। अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण॥ १६॥ अहमेको गमिष्यामि सीतया सह दण्डकान्। अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि॥ १७॥ क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत्। परिदद्याद्धि धर्मज्ञे गरं ते मम मातरम्॥ १८॥ नूनं जात्यन्तरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः। जनन्या मम सौमित्रे तस्मादेतदुपस्थितम्॥ १९॥ मया हि चिरपुष्टेन दुखसंवर्धितेन च। विप्रयुज्यत कौशल्या फलकाले धिगस्तु माम्॥ २०॥ मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्। सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्॥ २१॥ मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका। यस्यास्तत्श्रूयते वाक्यं शुक पादमरेर्दश॥ २२॥ शोचन्त्या अल्पभाग्याया न किञ्चिदुपकुर्वता। पुत्रेण किमपुत्राया मया कार्यमरिन्दम॥ २३॥ अल्पभाग्या हि मे माता कौशल्या रहिता मया। शेते परमदुःखार्ता पतिता शोकसागरे॥ २४॥ एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण। तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्॥ २५॥ अधर्मभयभीतश्च परलोकस्य चानघ। तेन लक्ष्मण नाद्याहमात्मानमभिषेचये॥ २६॥ एतदन्यश्च करुणं विलप्य विजने वने। अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्॥ २७॥ विलप्योपरतं रामं गतार्चिषमिवानलम्। समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः॥ २८॥ ध्रुवमद्य पुरी राजन्नयोध्या युधिनां वर। निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी॥ २९॥ नैतदौपयिकं ह्यर्य यदिदं परितप्यते। विषादयसि सीतां च मां चैव पुरुषर्षभ॥ ३०॥ न च सीता त्वया हीना न चाहमपि राघव। मुहूर्तमपि जीवावो जलान्मत्स्यावोद्धृतौ॥ ३१॥ न हि तातं न शत्रुघ्नं न सुमित्रां परन्तप। द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना॥ ३२॥ ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम्। न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ॥ ३३॥ स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात्। समाः समस्ता विदधे परन्तपः प्रपद्य धर्मं सुचिराय राघवः॥ ३४॥ ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्धनौ। न तौ भयं सम्भ्रममभ्युपेयतु र्यथैव सिंहौ गिरिसानुगोचरौ॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामसंक्षोभो नाम त्रिपञ्चाशस्सर्गः॥२-५३॥