home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

अष्टचत्वारिंशः सर्गः ॥२-४८॥

॥पौराङ्गनाविलापः॥

[ पुरवासिनीनां स्त्रीणां विलापः ]

तेषामेवं विष्ण्णानां पीडितानामतीव च । बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया॥ १॥ अनुगम्य निवृत्तानां रामं नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्॥ २॥ स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः॥ ३॥ न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् । न चाशोभन्त पण्यानि नापचन् गृहमेधिनः॥ ४॥ नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ ५॥ गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् । व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्॥ ६॥ किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा । पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम्॥ ७॥ एकः सत्पुरुषो लोके लक्ष्मण स्सह सीतया। योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने॥ ८॥ आपगाः कृतपुण्यास्ता पद्मिन्यश्च सरांसि च। येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि॥ ९॥ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः। आपगाश्च महानूपाः सानुमन्तश्च पर्वताः॥ १०॥ काननं वापि शैलं वा यं रामोऽभिगमिष्यति। प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्॥ ११॥ विचित्रकुसुमापीडा बहुमञ्जरि धारिणः। राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः॥ १२॥ अकाले चापि मुख्यानि पुष्पांणि च फलानि च। दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्॥ १३॥ प्रस्रविष्यन्ति तोयानि विमलानि महीधराः। विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्॥ १४॥ पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्। यत्र रामो भयं नात्र नास्ति तत्र पराभवः॥ १५॥ स हि शूरो महाबाहुः पुत्रो दशरथस्य च। पुरा भवति नो दूरादनुगच्छाम राघवम्॥ १६॥ पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः। स हि नाथो जनस्यास्य स गतिः स परायणम्॥ १७॥ वयं परिचरिष्यामः सीतां यूयं तु राघवम्। इति पौरस्त्रियो भर्तृ़न् दुखार्तास्तत्तदब्रुवन्॥ १८॥ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति। सीता नारीजनस्यास्य योगक्षेमं करिष्यति॥ १९॥ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च। सम्प्रीयेतामनोज्ञेन वासेन हृतचेतसा॥ २०॥ कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत्। न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः॥ २१॥ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्। कं सा परिहरेदन्यं कैकेयी कुलपांसनी॥ २२॥ कैकेय्या न वयं राज्ये भृतका निवसेम हि। जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे॥ २३॥ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा। कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्॥ २४॥ उपद्रुतमिदं सर्वमनालम्बमनायकम्। कैकेय्या हि कृते सर्वं विनाशमुपयास्यति॥ २५॥ न हि प्रव्रजिते रामे जीविष्यति महीपतिः। मृते दशरथे व्यक्तं विलापस्तदनन्तरम्॥ २६॥ ते विषं पिबतालोड्य क्षीणपुण्या स्सुदुर्गताः। राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत॥ २७॥ मिथ्या प्रव्राजितो रामः ससीतः सहलक्ष्मणः। भरते सन्निसृष्टाः स्मः सौनिके पशवो यथा॥ २८॥ पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः। आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः॥ २९॥ पूर्वाभिभाषी मधुर सत्यवादी महाबलः। सौम्यश्च सर्वलोकस्य चन्द्रवत् प्रियदर्शनः॥ ३०॥ नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः। शोभयिष्यत्यरण्यानि विचरन् स महारथः॥ ३१॥ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः। चुक्रुशुर्दुःखसन्तप्ता मृत्योरिव भयागमे॥ ३२॥ इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम्। जगामास्तं दिनकरो रजनी चाभ्यवर्तत॥ ३३॥ नष्टज्वलनसंपाता प्रशान्ताध्यायसंकथा। तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ॥ ३४॥ उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया। अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम्॥ ३५॥ तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते। विलप्य दीना रुरुदुर्विचेतसः स्सूतैर्हि तासामधिको हि सोऽभवत्॥ ३६॥ प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया। तदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षपितोदको यथा॥ ३७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पौराङ्गनाविलापो नाम अष्टचत्वारिशस्सर्गः।। ॥२-४८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध