रामऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्॥ १॥ तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सम्ध्याम् विषयान्तं व्यगाहत॥ २॥ ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च । पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः॥ ३॥ शृण्वन् वाचो मनुष्याणां ग्रामसम्वासवासिनाम् । राजानं धिग्दशरथं कामस्य वशमास्थितम्॥ ४॥ हा नृशम्साद्य कैकेयी पापा पापानुबन्धिनी । तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णकर्मणि वर्तते॥ ५॥ या पुत्रमिदृशं राज्ञः प्रवासयति धार्मिकम् । वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम्॥ ६॥ कथं नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति॥ ७॥ अहो दशरथो राजा निःस्नेहः स्वसुत प्रियम् । प्रजानामनघं रामं परित्यक्तुमिहेच्छति॥ ८॥ एता वाचो मनुष्याणां ग्रामसम्वासवासिनाम् । शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः॥ ९॥ ततो वेदश्रुतिं नाम शिववारिवहां नदीम् । उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्॥ १०॥ गत्वा तु सुचिरं कालं ततः शीतवहां नदीम् । गोमतीं गोयुतानूपामतरत् सागरंगमाम्॥ ११॥ गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः । मयूरहम्साभिरुतां ततार स्यन्दिकां नदीम्॥ १२॥ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा । स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्॥ १३॥ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः । मत्तहंसस्वरः श्रीमानुवाच पुरुषर्षभः॥ १४॥ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने । मृगयां पर्याटष्यामि मात्रा पित्रा च सम्गतः॥ १५॥ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने । रतिर्ह्येषातुला लोके राजर्षिगणसम्मता॥ १६॥ राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने । काले वृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम्॥ १७॥ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा। तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्॥ १८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे जानपदाक्रोशो नाम एकोनपञ्चाशः सर्गः ॥२-४९॥