प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना। शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः॥ १॥ शोकजाश्रुपरिद्यूना वीक्षमाणाः समन्ततः। आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः॥ २॥ ते विषादार्तवदना रहितास्तेन धीमता। कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः॥ ३॥ धिगस्तु खलु निद्रां तां ययापहृतचेतसः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्॥ ४॥ कथं नाम महाबाहुः स तथावितथक्रियः। भक्तं जनं परित्यज्य प्रवासं राघवो गतः॥ ५॥ यो नः सदा पालयति पिता पुत्रानिवौरसान्। कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः॥ ६॥ इहैव निधनं यामो महाप्रस्थानमेव वा। रामेण रहितानां नो किमर्थं जीवितं हितम्॥ ७॥ सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च। तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम्॥ ८॥ किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः। नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्॥ ९॥ सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना। भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका॥ १०॥ निर्यातास्तेन वीरेण सह नित्यं जितात्मना। रहीतास्तेन च पुनः कथं पश्याम तां पुरीम्॥ ११॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः। विलपन्ति स्म दुःखार्ता विवत्सा इव धेनवः॥ १२॥ ततो मार्गानुसारेण गत्वा किञ्चित् क्षणं पुनः। मार्गनाशाद् विषादेन महता समभिप्लुताः॥ १३॥ रथस्य मार्गाशेन न्यवर्तन्त मनस्विनः। किमिदं किं करिष्यामो दैवेनोपहता इति॥ १४॥ ततो यथागतेनैव मार्गेण क्लान्तचेतसः। अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्॥ १५॥ आलोक्य नगरीं तां च क्षयव्याकुलमानसाः। आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः॥ १६॥ एषा रामेण नगरी रहिता नातिशोभते। आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा॥ १७॥ चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्। अपश्यन् निहतानन्दं नगरं ते विचेतसः॥ १८॥ ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः। नैव प्रजज्ञुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पौरनिवृत्तिर्नाम सप्तचत्वारिंशः सर्गः ॥२-४७॥