home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

षड्चत्वारिंशः सर्गः ॥२-४६॥

॥पौरमोहनम्॥

[ सीतालक्ष्मणाभ्यां सह श्रीरामस्य रात्रौ तमसात निवासस्तत्र मातुः पितुरयोध्यायाश्च कृते तदीया चिन्ता, सुप्तान् पौरजनान् विहाय तस्य वनं प्रति गमनम् ]

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः। सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ १॥ इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्। वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि॥ २॥ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः। यथा निलयमायद्भिर्निलीनानि मृगद्विजैः॥ ३॥ अद्यायोध्या तु नगरी राजधानी पितुर्मम। सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः॥ ४॥ अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः। त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ ५॥ पितरं चानुशोचामि मातरं च यशस्विनीम्। अपि वान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः॥ ६॥ भरतः खलु धर्मात्मा पितरं मातरं च मे। धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ ७॥ भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः। नानुशोचामि पितरं मातरं चापि लक्ष्मण॥ ८॥ त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्। अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता॥ ९॥ अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्। एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ १०॥ एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः। अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ ११॥ सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते। प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥ उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम्। रामस्य शयनं चक्रे सूतः सौमित्रिणा सह॥ १३॥ तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्। रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ १४॥ सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः। कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥ जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः। सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ १६॥ गोकुलाकुलतीरायास्तमसाया विदूरतः। अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह॥ १७॥ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च। अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ १८॥ अस्मद्‍व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि। वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥ यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने। अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥ यावदेव तु संसुप्तास्तावदेव वयं लघु। रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ २१॥ अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः। स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः॥ २२॥ पौरा ह्यात्मकृताद् दुःखाद् विप्रमोक्ष्या नृपात्मजैः। न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ २३॥ अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्। रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति॥ २४॥ अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रं युज्यतां रथः। गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥ सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः। योजयित्वाथ रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥ अयं युक्तो महाबाहो रथस्ते रथिनां वर। त्वरयारोह भद्रं ते ससीतः सहलक्ष्मणः॥ २७॥ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः। शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्॥ २८॥ स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्। प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ २९॥ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः। उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे॥ ३०॥ मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः। तथा न विद्युः पौरा मां तथा कुरु समाहितः॥ ३१॥ रामस्य वचनं श्रुत्वा यथा चक्रे स सारथिः। प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ ३२॥ तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ। प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम्॥ ३३॥ ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ। उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ ३४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पौरमोहनं नाम षड्चत्वारिंशः सर्गः ॥२-४६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध