home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

पञ्चत्रिंशः सर्गः ॥२-३५॥

॥सुमन्त्रगर्हणम्॥

[ सुमन्त्रेण प्रबोधिताया भसितायाश्च कैकेय्या अक्षोभः ]

ततो निधूय सहसा शिरो निःश्वस्य चासकृत्। पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च॥ १॥ लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्। कोपाभिभूतः सहसा संतापमशुभं गतः॥ २॥ मनः समीक्षमाणस्य सूतो दशरथस्य सः। कम्पयन्निव कैकेय्या हृदयं वाक्छरैः शितैः॥ ३॥ वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः। कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत॥ ४॥ यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्। भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च॥ ५॥ न ह्यकार्यतमं किञ्चित्तव देवीह विद्यते। पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः॥ ६॥ यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्। महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः॥ ७॥ मावमंस्था दशरथं भर्तारं वरदं पतिम्। भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते॥ ८॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये। इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि॥ ९॥ राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्। वयं तत्र गमिष्यामो यत्र रामो गमिष्यति॥ १०॥ न हि ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति। तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि॥ ११॥ आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्। आचरन्त्या न विदृता सद्यो भवति मेदिनी॥ १२॥ महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः। धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्॥ १३॥ आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु यः। यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्॥ १४॥ आभिजातं हि ते मन्ये यथा मातुस्तथैव च। न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः॥ १५॥ तव मातुरसद्‍ग्राहं विद्म पूर्वं यथा श्रुतम्। पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्॥ १६॥ सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः। तेन तिर्यग्गतानां च भूतानां विदितं वचः॥ १७॥ ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः। पितुस्ते विदितो भावः स तत्र बहुधाहसत्॥ १८॥ तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती। हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्॥ १९॥ नृपश्चोवाच तां देवीं देवि शंसामि ते यदि। ततो मे मरणं सद्यो भविष्यति न संशयः॥ २०॥ माता ते पितरं देवि ततः केकयमब्रवीत्। शंस मे जीव वा मा वा न मामपहसिष्यसि॥ २१॥ प्रियया च तथोक्तः सन् केकयः पृथिवीपतिः। तस्मै तं वरदायार्थं कथयामास तत्त्वतः॥ २२॥ ततः स वरदः साधू राजानं प्रत्यभाषत। यदि त्वं शंससे राजन् मरणं ते भवेदध्रुवम्॥ २३॥ म्रियतां ध्वंसतां वेयं मा कृथास्त्वं महीपते। स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः॥ २४॥ मातरं ते निरस्याशु विजहार कुबेरवत्। तथा त्वमपि राजानं दुर्जनाचरिते पथि॥ २५॥ असद्‍ग्राहमिमं मोहात् कुरुषे पापदर्शिनी। सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा॥ २६॥ पितॄन् समनुजायन्ते नरा मातरमङ्गनाः। नैवं भव गृहाणेदं यदाह वसुधाधिपः॥ २७॥ भर्तुरिच्छामुपास्स्वेह जनस्यास्य गतिर्भव। मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्॥ २८॥ भर्तारं लोकभर्तारमसद्धर्ममुपादधाः। न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः॥ २९॥ श्रीमान् दशरथो राजा देवि राजीवलोचनः। ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्याभि रक्षिता॥ ३०॥ रक्षिता जीवलोकस्य ब्रूहि रामोऽभिषिच्यताम्। परिवादो हि ते देवि महाँल्लोके चरिष्यति॥ ३१॥ यदि रामो वनं याति विहाय पितरं नृपम्। स्वराज्यं राघवः पातु भव त्वं विगतज्वरा॥ ३२॥ न हि ते राघवादन्यः क्षमः पुरवरे वसन्। रामे हि यौवराज्यस्थे राजा दशरथो वनम्॥ ३३॥ प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्। इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि॥ ३४॥ सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः। नैव सा क्षुभ्यते देवी न च स्म परिदूयते। न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सुमन्त्रगर्हणं नाम पञ्चत्रिंशः सर्गः ॥२-३५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध