ततः कमलपत्राक्षः श्यामो निरुपमो महान्। उवाच रामस्तं सूतं पितुराख्याहि मामिति॥ १॥ स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः। प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ २॥ उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्। तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ ३॥ आलोक्य तं महाप्राज्ञः परमाकुलचेतनम्। राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्॥ ४॥ तं वर्धयित्वा राजानं सूतः पूर्वं जयाशिषा। भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत्॥ ५॥ अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः। ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ ६॥ स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः। सर्वान् सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते॥ ७॥ गमिष्यन्तं महारण्यं तं पश्य जगतीपते। वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ ८॥ स सत्यवादी धर्मात्मा गाम्भीर्यात् सागरोपमः। आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ ९॥ सुमन्त्रानय मे दारान् ये केचिदिह मामकाः। दारैः परिवृतः सर्वैरादित्यमिव रश्मिभिः॥१०॥ [दारैः परिवृतस्सर्वैर्द्रष्टुमिच्छामि धार्मिकम्॥ ] सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्। आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ ११॥ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया। प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्॥ १२॥ अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः। कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ १३॥ आगतेषु च दारेषु समवेक्ष्य महीपतिः। उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ १४॥ स सूतो राममादाय लक्ष्मणं मैथिलीं तथा। जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ १५॥ स राजा पुत्रमायान्तं दृष्ट्वा दूरात् कृताञ्जलिम्। उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ १६॥ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः। तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ १७॥ तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः। विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा॥ १८॥ स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि। हा हा रामेति सहसा भूषणध्वनिमूर्छितः॥ १९॥ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ। पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ २०॥ अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम्। उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्॥ २१॥ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ २२॥ लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्। कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः॥ २३॥ अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद। लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ २४॥ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतिः। उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ २५॥ अहं राघव कैकेय्या वरदानेन मोहितः। अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम्॥ २६॥ एवमुक्तो नृपतिना रामो धर्मभृतां वरः। प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ २७॥ भवान् वर्षसहस्राय पृथिव्या नृपते पतिः। अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम्॥ २८॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते। पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप॥ २९॥ रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः। कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ ३०॥ श्रेयसे वृद्धये तात पुनरागमनाय च। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ ३१॥ न हि सत्यात्मनस्तात धर्माभिमनसस्तव। विनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ ३२॥ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा। एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ ३३॥ मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्। तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि॥ ३४॥ दुष्करं क्रियते पुत्र सर्वथा राघव त्वया। मत्प्रियार्थं प्रियांस्त्यक्त्वा यद्यासि विजनं वनम्॥ ३५॥ न चैतन्मे प्रियं पुत्र शपे सत्येन राघव। छन्नया चलितस्त्वस्मि स्त्रिया छन्नाग्निकल्पया॥ ३६॥ वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि। अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ ३७॥ न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम। अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ ३८॥ अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ ३९॥ प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति। अपक्रमणमेवातः सर्वकामैरहं वृणे॥ ४०॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला। मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥ वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति। यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया॥ ४२॥ दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव। अहं निदेशं भवतो यथोक्तमनुपालयन्॥ ४३॥ चतुर्दश समा वत्स्ये वने वनचरैः सह। मा विमर्शो वसुमती भरताय प्रदीयताम्॥ ४४॥ न हि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम्। यथा निदेशं कर्तुं वै तवैव रघुनन्दन॥ ४५॥ अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः। न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ४६॥ नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम्। नैव सर्वानिमान् कामान् न स्वर्गं नैव जीवितम्॥ ४७॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ। प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ ४८॥ न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः॥ ४९॥ अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव। मया चोक्तं व्रजामीति तत् सत्यमनुपालये॥ ५०॥ मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्। प्रशान्तहरिणाकीर्णे नानाशकुननादिते॥ ५१॥ पिता हि दैवतं तात देवतानामपि स्मृतम्। तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ ५२॥ चतुर्दशसु वर्षेषु गतेषु नरसत्तम। पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ ५३॥ येन संस्तम्भनीयोऽयं सर्वो बाष्पगलो जनः। स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ ५४॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्। अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्॥ ५५॥ मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम्। शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्॥ ५६॥ न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ॥ ५७॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम्। न जीवितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा॥ ५८॥ फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च। वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः॥ ५९॥ एवं स राजा व्यसनाभिपन्नः शोकेन दुःखेन च ताम्यमानः। आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित्॥ ६०॥ देव्यस्ततः संरुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम्। रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्॥ ६१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथसमाश्वासनं नाम चतुस्त्रिंशः सर्गः ॥२-३४॥