home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

षड्त्रिंशः सर्गः ॥२-३६॥

॥सिद्धार्थप्रतिबोधनम्॥

[ श्रीरामेण सह सैन्यं कोषं च प्रेषयितुं राज्ञो दशरथस्यादेशः कैकेयीकर्तृकस्तस्य विरोधः सिद्धार्थेन कैकेय्याः प्रबोधनं राज्ञा स्वयमपि श्रीरामेण सह वनं गन्तुमिच्छायाः प्रकटनम् ]

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया। सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः॥ १॥ सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः। राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥ २॥ रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः। शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः॥ ३॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥ ४॥ आयुधानि च मुख्यानि नागराः शकटानि च। अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचराः॥ ५॥ निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु। नदीश्च विविधाः पश्यन् न राज्यस्य स्मरिष्यति॥ ६॥ धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः। तौ राममनुगच्छेतां वसन्तं निर्जने वने॥ ७॥ यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः। ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने॥ ८॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति। सर्वकामैः सह श्रीमान् रामः संसाध्यतामिति॥ ९॥ एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्। मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत॥ १०॥ सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता। राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्॥ ११॥ राज्यं गतजनं साधो पीतमण्डां सुरामिव। निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥ १२॥ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्। राजा दशरथो वाक्यमुवाचायतलोचनाम्॥ १३॥ वहन्तं किं तुदसि मां नियुज्य धुरि माहिते। अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः॥ १४॥ तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना। कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्॥ १५॥ तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्। असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥ १६॥ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्। व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत॥ १७॥ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः। शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥ १८॥ असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्। सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥ १९॥ तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्। असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन॥ २०॥ तानुवाच ततो राजा किन्निमित्तमिदं भयम्। ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥ २१॥ क्रीडतस्त्वेष नः पुत्रान् बालानुद्‍भ्रान्तचेतनः। सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते॥ २२॥ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः। तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया॥ २३॥ तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्। यावज्जीवं विवास्योऽयमिति स्वानन्वशात्पिता॥ २४॥ स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्। दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्॥ २५॥ इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः। रामः किमकरोत् पापं येनैवमुपरुध्यते॥ २६॥ न हि कंचन पश्यामो राघवस्यागुणं वयम्। दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्॥ २७॥ अथवा देवि दोषं त्वं कंचित्पश्यसि राघवे। तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यते॥ २८॥ अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च। निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधनात्॥ २९॥ तदलं देवि रामस्य श्रिया विहतया त्वया। लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने॥ ३०॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः। शोकोपहतया वाचा कैकेयीमिदमब्रवीत्॥ ३१॥ एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा। आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता॥ ३२॥ अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य धनं सुखं च। सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सिद्धार्थप्रतिबोधनं नाम षड्त्रिंशः सर्गः ॥२-३६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध