home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

द्वितीयः सर्गः ॥२-२॥

॥परिषदनुमोदनम्॥

[ दशरथकर्तृकः श्रीरामराज्याभिषेकप्रस्तावः संसत्सदस्यैः श्रीरामगुणानां वर्णनं कुर्वद्भिरुक्त- प्रस्तावस्य सहर्षं युक्तियुक्तं समर्थनम् ]

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः॥ १॥ दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना। स्वरेण महता राजा जीमूत इव नादयन्॥ २॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च। उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्॥ ३॥ विदितं भवतामेतद् यथा मे राज्यमुत्तमम्। पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्॥ ४॥ सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्। श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्॥ ५॥ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता। प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः॥ ६॥ इदं शरीरं लोकस्य कृत्स्नस्य चरता हितम्। पाण्डरस्यातपत्रस्य च्छायायां जरितं मया॥ ७॥ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः। जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये॥ ८॥ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः। परिश्रान्तोऽस्मि वो लोकस्य गुर्वीं धर्मधुरं वहन्॥ ९॥ सोऽहं विश्राममिच्छामि रामं कृत्वा प्रजाहिते। संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥ १०॥ अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः। पुरन्दरसमो वीर्ये रामः परपुरंजयः॥ ११॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्। यौवराज्येन योक्तास्मि प्रातः पुरुषपुङ्गवम्॥ १२॥ अनुरूपः स वै नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः। त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्॥ १३॥ अनेन श्रेयसा सद्यः संयोक्ष्यैवमिमां महीम्। गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै॥ १४॥ यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्। भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्॥ १५॥ यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्। अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया॥ १६॥ इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्। वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥ १७॥ स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः। जनौघोद‍्घुष्टसंनादो मेदिनीं कम्पयन्निव॥ १८॥ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः। ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह॥ १९॥ समेत्य ते मन्त्रयित्वा तु समतागतबुद्धयः। ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्॥ २०॥ अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव। स रामं युवराजानमभिषिञ्चस्व पार्थिवम्॥ २१॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम्। गजेन महता यान्तं रामं छत्रावृताननम्॥ २२॥ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्। अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्॥ २३॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ। राजानः संशयोऽयं मे किमिदं ब्रूत तत्त्वतः॥ २४॥ कथं नु मयि धर्मेण पृथिवीमनुशासति। भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्॥ २५॥ ते तमूचुर्महात्मानः पौरजानपदैः सह। बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते॥ २६॥ गुणान् गुणवतो देव देवकल्पस्य धीमतः। प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान् शृणु॥ २७॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः। इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते॥ २८॥ रामः सत्पुरुषो लोके सत्यधर्मपरायणः। साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह॥ २९॥ प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः। बुद‍्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः॥ ३०॥ धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः। क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः॥ ३१॥ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः। प्रियवादी च च भूतानां सत्यवादी च राघवः॥ ३२॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता। तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते॥ ३३॥ देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः। सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्॥ ३४॥ गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः। कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ ३५॥ द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः। यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा॥ ३६॥ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते। संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा॥ ३७॥ पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति। पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च॥ ३८॥ निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्। शुश्रूषन्ते च वः शिष्याः कच्चित् कर्मसु दंशिताः॥ ३९॥ इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते। व्यसनेषु मनुष्याणां भृशं भवति दुःखितः॥ ४०॥ उत्सवेषु च सर्वेषु पितेव परितुष्यति। सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः॥ ४१॥ स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः। सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः॥ ४२॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा। सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम्॥ ४३॥ रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः। प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः॥ ४४॥ शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम्। नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन॥ ४५॥ हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति। युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति॥ ४६॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्। गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः॥ ४७॥ तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्। लोकपालोपमं नाथमकामयत मेदिनी॥ ४८॥ वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः। दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः॥ ४९॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः। देवासुरमनुष्येषु गन्धर्वोरगेषु च॥ ५०॥ आशंसते जनाः सर्वो राष्ट्रे पुरवरे तथा। आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः॥ ५१॥ स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः। सर्वान् देवान्नमस्यन्ति रामस्यार्थे मनस्विनः॥ ५२॥ तेषां तद् याचितं देव त्वत्प्रसादात् समृद्ध्यताम्। राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्। पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्॥ ५३॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्। हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि॥ ५४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे परिषदनुमोदनं नाम द्वितीयः सर्गः ॥२-२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध