home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

तृतीयः सर्गः ॥२-३॥

॥पुत्रानुशासनम्॥

[ वसिष्ठवामदेवौ प्रति श्रीरामराज्याभिषेकसामग्री- संग्रहार्थं राज्ञो दशरथस्यानुरोधस्ताभ्यां सेवकान् प्रति तदनुरूपादेशस्य दानं राजाज्ञया सुमन्त्रेण श्रीरामस्य राजसभायामानयनं राज्ञा श्रीरामं प्रति हितस्योपदेशश्च ]

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः॥ १॥ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम। यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ॥ २॥ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत्। वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥ ३॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥ ४॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्। शनैस्तस्मिन् प्रशान्ते च जनघोषे नराधिपः॥ ५॥ वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्। अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्॥ ६॥ तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि। तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः॥ ७॥ आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्। सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि॥ ८॥ शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी। अहतानि च वासांसि रथं सर्वायुधान्यपि॥ ९॥ चतुरङ्गबलं चैव गजं च शुभलक्षणम्। चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डरम्॥ १०॥ शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्। हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च॥ ११॥ उपस्थापयत प्रातरग्न्यगारं महीपतेः। यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्॥ १२॥ अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च। चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः॥ १३॥ प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्। द्विजानां शतसाहस्रं यत् प्रकाममलं भवेत्॥ १४॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्। घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥ १५॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥ १६॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्। सर्वे च तालावचरा गणिकाश्च स्वलंकृताः॥ १७॥ कक्ष्यां द्वितीयामाश्रित्य तिष्ठन्तु नृपवेश्मनः। देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः॥ १८॥ उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक्। दीर्घासिबद्धा योधाश्च संनद्धा हृष्टमानसाः॥ १९॥ महाराजाङ्गनं सर्वे प्रविशन्तु महोदयम्। एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ॥ २०॥ चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्॥ २१॥ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ। ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्॥ २२॥ रामः कृतात्मा भवता शीघ्रमानीयतामिति। स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्॥ २३॥ रामं तत्रानयांचक्रे रथेन रथिनां वरम्। अथ तत्र समासीनास्तदा दशरथं नृपम्॥ २४॥ उपविष्टाश्च सचिवा राजानश्च सनैगमाः। प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः॥ २५॥ उपासांचक्रिरे सर्वे तं देवा इव वासवम्। तेषां मध्ये स राजर्षिर्मरुतामिव वासवः॥ २६॥ प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्। गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्॥ २७॥ दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम्॥ २८॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः॥ २९॥ न ततर्प समायान्तं पश्यमानो नराधिपः। अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्॥ ३०॥ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः॥ ३१॥ आरुरोह नृपं द्रष्टुं सह सूतेन राघवः। स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके॥ ३२॥ नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः। तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः॥ ३३॥ गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। तस्मै चाभ्युद्यतं सौम्यं मणिकाञ्चनभूषितम्॥ ३४॥ दिदेश राजा रुचिरं रामाय वरमासनम्। तदासनवरं प्राप्य व्यदीपयत राघवः॥ ३५॥ स्वयैव प्रभया मेरुमुदये विमलो रविः। तेन विभ्राजिता तत्र सा सभाभि व्यरोचत॥ ३६॥ विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना। तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्॥ ३७॥ अलंकृतमिवात्मानमादर्शतलसंस्थितम्। स तं सुस्मितमाभाष्य पुत्रं पुत्रवतां वरः॥ ३८॥ उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः। ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः॥ ३९॥ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः। यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः॥ ४०॥ तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि। कामतस्त्वं प्रकृत्यैव विनितो गुणवानिति॥ ४१॥ गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्। भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः॥ ४२॥ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च। परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा॥ ४३॥ अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय। गोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून्॥ ४४॥ तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्। तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः॥ ४५॥ तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर। तत्श्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः॥ ४६॥ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्। सा हिरण्यं च गाश्चैव रत्नानि विविधानि च॥ ४७॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा। अथाभिवाद्य राजानं रथमारुह्य राघवः। ययौ स्वं द्युतिमद् वेश्म जनौघैः परिपूजितः॥ ४८॥ ते चापि पौरा नृपतेर्वचस्त- श्रुत्वा तदा लाभमिवेष्टमाशु। नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरतिप्रहृष्टाः॥ ४९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे पुत्रानुशस्नं नाम तृतीयः सर्गः ॥२-३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध