home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

प्रथमः सर्गः ॥२-१॥

॥रामाभिषेकव्यवसायः॥

[ श्रीरामसद्गुणानां वर्णनं श्रीरामं यौवराज्ये स्थापयितुं दशरथस्य विचारस्तदर्थं मन्त्रणां कर्तुं विभिन्न- नरेशानां पौराणां जानपदानां च राज्ञा स्वसंसदि समाह्वानम् ]

गच्छता मातुलकुलं भरतेन महात्मना। शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥ १॥ स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः। मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥ २॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्॥ ३॥ राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ। उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ॥ ४॥ सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः॥ ५॥ तेषामपि महातेजा रामो रतिकरः पितुः। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ ६॥ स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः। अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥ ७॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना॥ ८॥ स हि वीर्योपपन्नश्च रूपवाननसूयकः। भूमावनुपमः सूनुर्गुणैर्दशरथोपमः॥ ९॥ स तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते। उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते॥ १०॥ कथंचिदुपकारेण कृतेनैकेन तुष्यति। न स्मरत्यपकाराणां शतमप्यात्मवत्तया॥ ११॥ शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः। कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि॥ १२॥ बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः। वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३॥ न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः। अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते॥ १४॥ सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः। दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः॥ १५॥ कुलोचितमतिः क्षात्त्रं धर्मं स्वं बहु मन्यते। मन्यते परया कीर्त्या महत् स्वर्गफलं ततः॥ १६॥ नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः। उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा॥ १७॥ अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्। लोके पुरुषसारज्ञः साधुरेको विनिर्मितः॥ १८॥ स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः॥ १९॥ सम्यग्विद्याव्रतस्नातो यथावत् साङ्गवेदवित्। इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः॥ २०॥ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः। वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः॥ २१॥ धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्। लौकिके समयाचारे कृतकल्पो विशारदः॥ २२॥ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्। अमोघक्रोधहर्षश्च त्यागसंग्रहकालवित्॥ २३॥ दृढभक्तिं स्थिरप्रज्ञो नासद्‍ग्राही न दुर्वचः। निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित्॥ २४॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः। यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः॥ २५॥ सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च। आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्॥ २६॥ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च। अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः॥ २७॥ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्। आरोहे विनये चैव युक्तो वारणवाजिनाम्॥ २८॥ धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः। अभियाता प्रहर्ता च सेनानयविशारदः॥ २९॥ अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः। अनसूयो जितक्रोधो न दृप्तो न च मत्सरी॥ ३०॥ न चावमन्ता भूतानां न च कालवशानुगः। एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः॥ ३१॥ सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः॥ ३२॥ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः। गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ ३३॥ तमेवं वृत्तसम्पन्नमप्रधृष्यपराक्रमम्। लोकपालोपमं नाथमकामयत मेदिनी॥ ३४॥ एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्। दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः॥ ३५॥ अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः। प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति॥ ३६॥ एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते। कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्॥ ३७॥ वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः। मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्॥ ३८॥ यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः॥ ३९॥ महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्। अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्॥ ४०॥ इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः। शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः॥ ४१॥ तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः। निश्चित्य सचिवैः सार्धं युवराजममन्यत॥ ४२॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्। संचचक्षे च मेधावी शरीरे चात्मनो जराम्॥ ४३॥ पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः। लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः॥ ४४॥ आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च। प्राप्तकाले स धर्मात्मा भक्त्या त्वरितवान् नृपः॥ ४५॥ नानानगरवास्तव्यान् पृथग्जानपदानपि। समानिनाय मेदिन्यां प्रधानान् पृथिवीपतीन्॥ ४६॥ तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्। ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः॥ ४७॥ न तु केकयराजानं जनकं वा नराधिपः। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्॥ ४८॥ अथोपविष्टे नृपतौ तस्मिन् परबलार्दने। ततः प्रविविशुः शेषा राजानो लोकसम्मताः॥ ४९॥ अथ राजा वितीर्णेषु विविधेष्वासनेषु च। राजानमेवाभिमुखा निषेदुर्नयकोविदाः॥ ५०॥ स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः। उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः॥ ५१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे रामभिषेकव्यवसायो नम प्रथमः सर्गः ॥२-१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध