home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
अयोध्याकाण्डम्

चतुर्दशः सर्गः ॥२-१४॥

॥कैकेय्युपालम्भः॥

[ कैकेय्या राज्ञः सत्ये दृढतरावस्थानाय प्रेरणं निज-प्रार्थितवरपूर्तये तं प्रति दुराग्रहप्रकटनं च, अन्तःपुरद्वारमागत्य वसिष्ठेन सुमन्त्रस्य महा- राजसंनिधौ प्रेषणं राजाज्ञया सुमन्त्रस्य श्रीराम- मानेतुं ततो गमनं च. ]

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि। विचेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत्॥ १॥ पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्। शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि॥ २॥ आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः। सत्यमाश्रित्य च मया त्वं धर्मं प्रति चोदितः॥ ३॥ संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः। प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्॥ ४॥ तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। याचमाने स्वके नेत्रे उद‍्धृत्याविमना ददौ॥ ५॥ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः। सत्यानुरोधात् समये वेलां स्वां नातिवर्तते॥ ६॥ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्॥ ७॥ सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम॥ ८॥ धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्। प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्॥ ९॥ समयं च ममाद्येमं यदि त्वं न करिष्यसि। अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥ १०॥ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा॥ ११॥ उद‍्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा॥ १२॥ विह्वलाभ्यां च नेत्राभ्यां पश्यन्निव भूमिपः। कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्॥ १३॥ यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः। तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया॥ १४॥ प्रयाता रजनी देवि सूर्यस्योदयनं प्रति। अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्॥ १५॥ रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः। रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥ १६॥ त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया। व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम्॥ १७॥ न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्। हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम्॥ १८॥ तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी॥ १९॥ ततः पापसमाचारा कैकेयी पार्थिवं पुनः। उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता॥ २०॥ किमिदं भाषसे राजन् वाक्यं गररुजोपमम्। आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि॥ २१॥ स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि॥ २२॥ स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत्॥ २३॥ धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना। ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्॥ २४॥ ततः प्रभातां रजनीमुदिते च दिवाकरे। पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते॥ २५॥ वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा। उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्॥ २६॥ सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्। विचित्रकुसुमाकीर्णं नानास्रग्भिर्विराजिताम्॥ २७॥ संहृष्टमनुजोपेतां समृद्धविपणापणाम्। महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्॥ २८॥ चन्दनागुरुधूपैश्च सर्वतः परिधूपिताम्। तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्॥ २९॥ ददर्शान्तःपुरं श्रीमान् नानाद्विजगणायुतम्। पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्॥ ३०॥ यज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमार्चितैः। तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्॥ ३१॥ वसिष्ठः परमप्रीतः परमर्षिभिरावृतः। स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्॥३२॥ द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्। तमुवाच महातेजाः सूतपुत्रं विशारदम्॥ ३३॥ वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्। इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः॥ ३४॥ औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्। सर्वबीजानि गन्धाश्च रत्नानि विविधानि च॥ ३५॥ क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः। अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः॥ ३६॥ चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्॥ ३७॥ श्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः। हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः॥ ३८॥ केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः। सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः॥ ३९॥ सर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः। आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः॥ ४०॥ पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह। एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः॥ ४१॥ अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः। त्वरयस्व महाराजं यथा समुदितेऽहनि॥ ४२॥ पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्। इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः॥ ४३॥ स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्। तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः॥ ४४॥ न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः। स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्॥ ४५॥ वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे। ततः सूतो यथाकालं पार्थिवस्य निवेशने॥ ४६॥ सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्। यथा नन्दति तेजस्वी सागरो भास्करोदये॥ ४७॥ प्रीतः प्रीतेन मनसा तथा नन्दय नः स्वतः। इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः॥ ४८॥ सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्। वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम्॥ ४९॥ ह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्। आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्॥ ५०॥ बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्। उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः॥ ५१॥ विराजमानो वपुषा मेरोरिव दिवाकरः। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि॥ ५२॥ वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। गता भगवती रात्रिरहः शिवमुपस्थितम्॥ ५३॥ बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्। उदतिष्ठत रामस्य समग्रमभिषेचनम्॥ ५४॥ पौरजानपदैश्चापि नैगमैश्च कृतात्मभिः स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति॥ ५५॥ क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्। यथा ह्यपालाः पशवो यथा सेना ह्यनायका॥ ५६॥ यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्। एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते॥ ५७॥ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्। अभ्यकीर्यत शोकेन भूय एव महीपतिः॥ ५८॥ ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति। शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः॥ ५९॥ वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि। सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्॥ ६०॥ प्रगृहीताञ्जलिः प्रह्वस्तस्माद् देशादपाक्रमत्। यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः॥ ६१॥ तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह। सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः॥ ६२॥ प्रजागरपरिश्रान्तो निद्राया वशमेयिवान्। तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्॥ ६३॥ राममानय भद्रं ते नात्र कार्या विचारणा। स मन्यमानः कल्याणं हृदयेन ननन्द च॥ ६४॥ निर्जगाम च संप्रीत्या त्वरितो राजशासनात्। सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया॥ ६५॥ व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्। इति सूतो मतिं कृत्वा हर्षेण महता वृतः॥ ६६॥ निर्जगाम महाबाहो राघवस्य दिदृक्षया। सागरह्रदसंकाशात् सुमन्त्रोऽन्तःपुराच्छुभात्। निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः॥ ६७॥ ततः पुरस्तात् सहसा विनिर्गतो महीपतेन् द्वारगतान् विलोकयन्। ददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान्॥ ६८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे कैकेय्युपालम्भो नाम चतुर्दशः सर्गः ॥२-१४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध