ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः। उपतस्थुरुपस्थातुं सभां राजपुरोहिताः॥ १॥ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च। राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः॥ २॥ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। लग्ने कर्कटके प्राप्ते चन्द्रे रामस्य च स्थिते॥ ३॥ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्। काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्॥ ४॥ रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा। गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्॥ ५॥ याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च। प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः॥ ६॥ ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः। सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः॥ ७॥ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा। क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ८॥ वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः। चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभूषितम्॥ ९॥ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्। चन्द्रमण्डलसंकाशमातपत्रं च पाण्डरम्॥ १०॥ सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्। पाण्डुरश्च वृषः सज्जः पाण्डरोऽश्वश्च सुस्थितः॥ ११॥ प्रसृतश्च गतः श्रीमानौपवाह्यः प्रतीक्षते। अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः॥ १२॥ वादित्राणि च सर्वाणि वन्दिनश्च तथा परे। इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्॥ १३॥ तथाजातीयमादाय राजपुत्राभिषेचनम्। ते राजवचनात् तत्र समवेता महीपतिम्॥ १४॥ अपश्यन्तोऽब्रुवन् को नु प्राज्ञो नः प्रतिवेदयेत्। न पश्यामश्च राजानमुदितश्च दिवाकरः॥ १५॥ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः। इति तेषु ब्रुवाणेषु सर्वभौमान् महीपतीन्॥ १६॥ अब्रवीत् तानिदं सर्वान् सुमन्त्रो राजसत्कृतः। रामं राज्ञो नियोगेन त्वरया प्रस्थितोऽस्म्यहम्॥ १७॥ पूज्या राज्ञो भवन्तस्तु रामस्य तु विशेषतः। अहं पृच्छामि वचनात् सुखमायुष्मतामहम्॥ १८॥ राज्ञः सम्प्रतिबुद्धस्य यच्चागमनकारणम्। इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्॥ १९॥ सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह। तुष्टावास्य तदा वंशं प्रविश्य च विशाम्पतेः॥ २०॥ शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत। सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा॥ २१॥ आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्। सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि॥ २२॥ वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। गता भगवती रात्रिः कृतं कृयुअमिदं तवः॥ २३॥ बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्। ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप॥ २४॥ दर्शनं तेऽभिकाङ्क्षन्ते प्रतिबुध्यस्व राघव। स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्॥ २५॥ प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्। राममानय सूतेति यदस्यभिहितोऽनया॥ २६॥ किमिदं कारणं येन ममाज्ञा प्रतिहन्यते। न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्॥ २७॥ इति राजा दशरथः सूतं तत्रान्वशात् पुनः। स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्॥ २८॥ निर्जगाम नृपावासान्मन्यमानः प्रियं महत्। प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्॥ २९॥ हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्। स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः॥ ३०॥ अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्। ततो ददर्श रुचिरं कैलासशिखरप्रभम्॥ ३१॥ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्। महाकवाटसंयुक्तं वितर्दिशतशोभितम्॥ ३२॥ काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्। शारदाभ्रघनप्रख्यं दीप्तं मेरुगुगोपमम्॥ ३३॥ मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्। मुक्तामणिभिराकीर्णं चन्दनागुरुधूपितम्॥ ३४॥ गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा। सारसैश्च मयूरैश्च निनदद्भिर्विराजितम्॥ ३५॥ सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा। मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा॥ ३६॥ चन्द्रभास्करसंकाशं कुबेरभवनोपमम्। महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्॥ ३७॥ मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह। उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः॥ ३८॥ उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः। रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम्॥ ३९॥ महामेघसमप्रख्यमुदग्रं सुविभूषितम्। नानारत्नसमाकीर्णं कुब्जकैरातकावृतम्॥ ४०॥ स वाजियुक्तेन रथेन सारथि र्नराकुलं राजकुलं विलोकयन्। वरूथिना राजगृहाभिपातिना पुरस्य सर्वस्य मनांसि रञ्जयन्॥ ४१॥ ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः। मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव॥ ४२॥ स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः। प्रियान् नरान् राममते स्थितान् बहूनपोह्य शुद्धान्तमुपस्थितौ रथी॥ ४३॥ स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थयुता जनानाम्। नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः॥ ४४॥ महेन्द्रसद्मप्रतिमं च वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्। ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः॥ ४५॥ उपस्थितैरञ्जलिकारिभिश्च सोपायनैर्जानपदैरनेकैः। कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपदं ददर्श॥ ४६॥ ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमप्रह्यम्। रामौपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम्॥ ४७॥ स्वलंकृतान् साश्वरथान् सकुञ्जरा- नमात्यमुख्याञ्शतशश्च वल्लभान्। व्यपोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश॥ ४८॥ ततोद्रिकूटाचलमेघसंनिभं महाविमानोत्तवेश्मसंघवत्। अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्॥ ४८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे सुमन्त्रप्रेषणं नाम पञ्चदशः सर्गः ॥२-१५॥