अतदर्हं महाराजं शयानमतथोचितम्। ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्॥ १॥ अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी। पुनराकारयामास तमेव वरमङ्गना॥ २॥ त्वं कत्थसे महाराज सत्यवादी दृढव्रतः। मम चेमं वरं कस्माद् विधारयितुमिच्छसि॥ ३॥ एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा। प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव॥ ४॥ मृते मयि गते रामे वनं मनुजपुङ्गवे। हन्तानार्ये ममामित्रे सकामा भव कैकयि॥ ५॥ स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्। प्रत्यादेशादभिहितं धारयिष्ये कथं बत॥ ६॥ कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्। यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति॥ ७॥ अपुत्रेण मया पुत्रः श्रमेण महता महान्। रामो लब्धो महाबाहुः स कथं त्यज्यते मया॥ ८॥ शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः। कथं कमलपत्राक्षो मया रामो विवास्यते॥ ९॥ कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्। अभिराममहं रामं प्रेषयिष्यामि दण्डकान्॥ १०॥ सुखानामुचितस्यैव दुःखैरनुचितस्य च। दुःखं नामानुपश्येयं कथं रामस्य धीमतः॥ ११॥ यदि दुःखमनुत्पाद्या मम संक्रमणं भवेत्। अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्॥ १२॥ नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्। किं विप्रियेण कैकेयि प्रियं योजयसे मम॥ १३॥ अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे। तथा विलपतस्तस्य परिभ्रमित चेतसः॥ १४॥ अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत। सा त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता॥ १५॥ राज्ञो विलपमानस्य न व्यभासत शर्वरी। सदैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः॥ १६॥ विललापार्तवद् दुःखं गगनासक्तलोचनः। न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे॥ १६॥ क्रियतां मे दया भद्रे रचितोऽयं मयाञ्जलिः। अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्॥ १८॥ नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं महत्। एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः॥ १९॥ प्रसादयामास पुनः कैकेयीमिदमब्रवीत्। साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः॥ २०॥ प्रसादः क्रियतां देवि मम राज्ञो विशेषतः। शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्॥ २१॥ कुरु साधु प्रसादं मे बाले सहृदया ह्यसि। प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्॥ २२॥ लभतामसितापाङ्गे यशः परमवाप्स्यसि। मम रामस्य लोकस्य गुरूणां भरतस्य च। प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे॥ २३॥ विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः। श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम्॥ २४॥ ततः स राजा पुनरेव मूर्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्। समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥ २५॥ इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः। विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् अयोध्याकाण्डे दशरथविलापो नाम त्रयोदशः सर्गः ॥२-१३॥