
भगवत्कृपया तस्यैव पदारविन्दं नत्वा, तदीय कटाक्षो भवतु इति विचिन्त्य इदं कार्यम् आरभ्यते।
भक्तानां मुखारविन्दं सौगन्ध्यं करोति श्रीमद्भागवतमहापुराणं पाषाणमपि फलायति इति प्रसिद्धिः। श्रीमद्भागवत-महापुराणस्य अध्येताराः [पाठकाः] स्वयम् एव भागवताः भवन्ति इति लोके श्रूयते च।
अस्मिन् प्रकाशने यदि त्रुटयः स्युः तर्हि पाठकाःभागवताः तान् दोषान् विज्ञाप्य यज्ञेऽस्मिन् भागगृहीतारः स्युः इति प्रार्थयामः।
श्रीभगवान् दोषक्षमापनम् अस्माकं कृत्वा स्वीयपदारविन्दे एव अस्मान् रक्षतु इति च प्रार्थयामहे।