header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ षष्ठोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ षष्ठोऽध्यायः
इक्ष्वाकुवंशवर्णनं तत्र मान्धातुश्चरितं सौभर्युपाख्यानं च
श्रीशुक उवाच। विरूपः केतुमाच्छम्भुरम्बरीषसुतास्त्रयः। विरूपात् पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः॥ 1 रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः। अङ्‌गिरा जनयामास ब्रह्मवर्चस्विनः सुतान्॥ 2 एते क्षेत्रे प्रसूता वै पुनस्त्वाङ्‌गिरसाः स्मृताः। रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः॥ 3 क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः। तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः॥ 4 तेषां पुरस्तादभवन्नर्यावर्ते नृपा नृप। पञ्चविंशतिः पश्चाच्च त्रयो मध्ये परेऽन्यतः॥ 5 स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत्। मांसमानीयतां मेध्यं विकुक्षे गच्छ माचिरम्॥ 6 तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान्। श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः॥ 7 शेषं निवेदयामास पित्रे तेन च तद्‍गुरुः। चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम्॥ 8 ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः। देशान्निःसारयामास सुतं त्यक्तविधिं रुषा॥ 9 स तु विप्रेण संवादं जापकेन समाचरन्। त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम्॥ 10 पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम्। शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः॥ 11 पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः। ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः॥ 12 कृतान्त आसीत् समरो देवानां सह दानवैः। पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः॥ 13 वचनाद् देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः। वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः॥ 14 स सन्नद्धो धनुर्दिव्यमादाय विशिखाञ्चितान्। स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः॥ 15 तेजसाऽऽप्यायितो विष्णोः पुरुषस्य परात्मनः। प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम्॥ 16 तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम्। यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे॥ 17 तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम्। विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम्॥ 18 जित्वा परं धनं सर्वं सश्रीकं वज्रपाणये। प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः॥ 19 पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुतः पृथुः। विश्वरन्धिस्ततश्चन्द्रो युवनाश्वश्च तत्सुतः॥ 20 शाबस्तस्तत्सुतो येन शाबस्ती निर्ममे पुरी। बृहदश्वस्तु शाबस्तिस्ततः कुवलयाश्वकः॥ 21 यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली। सुतानामेकविंशत्या सहस्रैरहनद् वृतः॥ 22 धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः। धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः॥ 23 दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत। दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः॥ 24 बर्हेणाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित्। युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गतः॥ 25 भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः। इष्टिं स्म वर्तयाञ्चक्रुरैन्द्रीं ते सुसमाहिताः॥ 26 राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षितः। दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम्॥ 27 उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो। पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम्॥ 28 राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते। ईश्वराय नमश्चक्रुरहो दैवबलं बलम्॥ 29 ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम्। युवनाश्वस्य तनयश्चक्रवर्ती जजान ह॥ 30 कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम्। मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात्॥ 31 न ममार पिता तस्य विप्रदेवप्रसादतः। युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात्॥ 32 त्रसद्दस्युरितीन्द्रोऽङ्‌ग विदधे नाम यस्य वै। यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः॥ 33 यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः। सप्तद्वीपवतीमेकः शशासाच्युततेजसा॥ 34 ईजे च यज्ञं क्रतुभिरात्मविद् भूरिदक्षिणैः। सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम्॥ 35 द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः। धर्मो देशश्च कालश्च सर्वमेतद् यदात्मकम्॥ 36 यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति। सर्वं तद् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते॥ 37 शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः। पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम्। तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम्॥ 38 यमुनान्तर्जले मग्नस्तप्यमानः परंतपः। निर्वृतिं मीनराजस्य वीक्ष्य मैथुनधर्मिणः॥ 39 जातस्पृहो नृपं विप्रः कन्यामेकामयाचत। सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे॥ 40 स विचिन्त्याप्रियं स्त्रीणां जरठोऽयमसम्मतः। वलीपलित एजत्क इत्यहं प्रत्युदाहृतः॥ 41 साधयिष्ये तथाऽऽत्मानं सुरस्त्रीणामपीप्सितम्। किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः॥ 42 मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत्। वृतश्स राजकन्याभिरेकः पञ्चाशता वरः॥ 43 तासां कलिरभूद् भूयांस्तदर्थेऽपोह्य सौहृदम्। ममानुरूपो नायं व इति तद्‍गतचेतसाम्॥ 44 स बह्वृचस्ताभिरपारणीय- तपःश्रियानर्घ्यपरिच्छदेषु। गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु॥ 45 महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः। स्वलङ्‌कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद् द्विजभृङ्‌गवन्दिषु॥ 46 यद्‍गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः। विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम्॥ 47 एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः। सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः॥ 48 स कदाचिदुपासीन आत्मापह्नवमात्मनः। ददर्श बह्वृचाचार्यो मीनसङ्‌गसमुत्थितम्॥ 49 अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य। अन्तर्जले वारिचरप्रसङ्‌गात् प्रच्यावितं ब्रह्म चिरं धृतं यत्॥ 50 सङ्‌गं त्यजेत मिथुनव्रतीनां मुमुक्षुः। सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि एकश्चरन् रहसि चित्तमनन्त ईशे। युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्‌गः॥ 51 एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्‌गात् पञ्चाशदासमुत पञ्चसहस्रसर्गः। नान्तं व्रजाम्युभयकृत्यमनोरथानां मायागुणैर्हृतमतिर्विषयेऽर्थभावः॥ 52 एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः। वनं जगामानुययुस्तत्पत्‍न्यः पतिदेवताः॥ 53 तत्र तप्त्वा तपस्तीक्ष्णमात्मकर्शनमात्मवान्। सहैवाग्निभिरात्मानं युयोज परमात्मनि॥ 54 ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम्। अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः॥ 55 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सौभर्याख्याने षष्ठोऽध्यायः ॥6॥
Tamil