header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ तृतीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ तृतीयोऽध्यायः
शर्यातिवंशः, सुकन्याख्यानं रेवतकन्याख्यानं च
श्रीशुक उवाच। शर्यातिर्मानवो राजा ब्रह्मिष्ठः स बभूव ह। यो वा अङ्गिरसां सत्रे द्वितीयमह ऊचिवान्॥ 1 सुकन्या नाम तस्यासीत् कन्या कमललोचना। तया सार्धं वनगतो ह्यगमच्चवयवनाश्रमम्॥ 2 सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान् वने। वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी॥ 3 ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै। अविध्यन्मुग्धभावेन सुस्रावासृक् ततो बहिः॥ 4 शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात्। राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितोऽब्रवीत्॥ 5 अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम्। व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम्॥ 6 सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया। द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै॥ 7 दुहितुस्तद् वचः श्रुत्वा शर्यातिर्जातसाध्वसः। मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः॥ 8 तदभिप्रायमाज्ञाय प्रादाद् दुहितरं मुनेः। कृच्छ्रान्मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहितः॥ 9 सुकन्या च्यवनं प्राप्य पतिं परमकोपनम्। प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः॥ 10 कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ। तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ॥ 11 ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः। क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम्॥ 12 बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ। निमज्जतां भवानस्मिन् ह्रदे सिद्धविनिर्मिते॥ 13 इत्युक्त्वा जरया ग्रस्तदेहो धमनिसन्ततः। ह्रदं प्रवेशितोऽश्विभ्यां वलीपलितविप्रियः॥ 14 पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रियाः। पद्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः॥ 15 तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः। अजानती पतिं साध्वी अश्विनौ शरणं ययौ॥ 16 दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ। ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम्॥ 17 यक्ष्यमाणोऽथ शर्यातिश्च्यवनस्याश्रमं गतः। ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम्॥ 18 राजा दुहितरं प्राह कृतपादाभिवन्दनाम्। आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव॥ 19 चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः। यत् त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम्॥ 20 कथं मतिस्तेऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्विदम्। बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः॥ 21 एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता। उवाच तात जामाता तवैष भृगुनन्दनः॥ 22 शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम्। विस्मितः परमप्रीतस्तनयां परिषस्वजे॥ 23 सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत्। असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा॥ 24 हन्तुं तमाददे वज्रं सद्योमन्युरमर्षितः। सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः॥ 25 अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः। भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ॥ 26 उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः। शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत्॥ 27 सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम्। आस्थितोऽभुङ्‌क्त विषयानानर्तादीनरिन्दम॥ 28 तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम्। ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः॥ 29 कन्यावरं परिप्रष्टुं ब्रह्मलोकमपावृतम्। आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम्॥ 30 तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत्। तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह॥ 31 अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः। तत्पुत्रपौत्रनप्तॄणां गोत्राणि च न श्रृण्महे॥ 32 कालोऽभियातस्त्रिणवचतुर्युगविकल्पितः। तद् गच्छ देवदेवांशो बलदेवो महाबलः॥ 33 कन्यारत्‍नमिदं राजन् नररत्‍नाय देहि भोः। भुवो भारावताराय भगवान् भूतभावनः॥ 34 अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः। इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः। त्यक्तं पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्ववस्थितैः॥ 35 सुतां दत्त्वानवद्याङ्‌गीं बलाय बलशालिने। बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम्॥ 36॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ 3 ॥
Tamil