header_image
Home
Tamil

अष्टमः स्कन्धः ~:०:~ अथ त्रयोदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ त्रयोदशोऽध्यायः
भविष्यन्मन्वन्तरसप्तकवर्णनम्
श्रीशुक उवाच। मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः। सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु॥ 1 इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते॥ 2 करूषश्च पृषध्रश्च दशमो वसुमान्स्मृतः। मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप॥ 3 आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः। अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः॥ 4 कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः। जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः॥ 5 अत्रापि भगवज्जन्म कश्यपाददितेरभूत्। आदित्यानामवरजो विष्णुर्वामनरूपधृक्॥ 6 सङ्क्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते। भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च॥ 7 विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे। संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव॥ 8 तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः। यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु॥ 9 सावर्णिस्तपती कन्या भार्या संवरणस्य या। शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ॥ 10 अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः। निर्मोकविरजस्काद्याः सावर्णितनया नृप॥ 11 तत्र देवाः सुतपसो विरजा अमृतप्रभाः। तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति॥ 12 दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्। राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति॥ 13 योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः। निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव॥ 14 गालवो दीप्तिमान्रामो द्रोणपुत्रः कृपस्तथा। ऋष्यशृङ्गः पितास्माकं भगवान्बादरायणः॥ 15 इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः। इदानीमासते राजन् स्वे स्व आश्रममण्डले॥ 16 देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः। स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः॥ 17 नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः। भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप॥ 18 पारा मरीचिगर्भाद्या देवा इन्द्रो ऽद्भुतः स्मृतः। द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः॥ 19 आयुष्मतोऽम्बुधारायामृषभो भगवत्कला। भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः॥ 20 दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान्। तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः॥ 21 हविष्मान्सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः। सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः॥ 22 विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति। जातः स्वांशेन भगवान्गृहे विश्वसृजो विभुः॥ 23 मनुर्वै धर्मसावर्णिरेकादशम आत्मवान्। अनागतास्तत्सुताश्च सत्यधर्मादयो दश॥ 24 विहङ्गमाः कामगमा निर्वाणरुचयः सुराः। इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः॥ 25 आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः। वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति॥ 26 भविता रुद्रसावर्णी राजन्द्वादशमो मनुः। देववानुपदेवश्च देवश्रेष्ठादयः सुताः॥ 27 ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः। ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः॥ 28 स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः। अन्तरं सत्यसहसः सूनृतायाः सुतो विभुः॥ 29 मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्। चित्रसेनविचित्राद्या देवसावर्णिदेहजाः॥ 30 देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः। निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा॥ 31 देवहोत्रस्य तनय उपहर्ता दिवस्पतेः। योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति॥ 32 मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति। उरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णिवीर्यजाः॥ 33 पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति। अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः॥ 34 सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः। वितानायां महाराज क्रियातन्तून्वितायिता॥ 35 राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते। प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः॥ 36
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ 13 ॥

Tamil