header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ द्वितीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ द्वितीयोऽध्यायः
विष्णुदूतमुखेन भागवतधर्मनाममाहात्म्यनिरूपणं याम्यपाशान्मुक्तस्याजामिलस्य भगवदाराधनया परमधामगमनं च
श्रीशुक उवाच - एवं ते भगवद्दूता यमदूताभिभाषितम्। उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः॥ 1 श्रीविष्णुदूता ऊचुः - अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम्। यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा॥ 2 प्रजानां पितरो ये च शास्तारः साधवः समाः। यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः॥ 3 यद्यदाचरति श्रेयानितरस्तत्तदीहते। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ 4 यस्याङ्‌के शिर आधाय लोकः स्वपिति निर्वृतः। स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः॥ 5 स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम्। विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति॥ 6 अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि। यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः॥ 7 एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्। यदा नारायणायेति जगाद चतुरक्षरम्॥ 8 स्तेनः सुरापो मित्रध्रुग्ब्रह्महा गुरुतल्पगः। स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे॥ 9 सर्वेषामप्यघवतामिदमेव सुनिष्कृतम्। नामव्याहरणं विष्णोर्यतस्तद् विषया मतिः॥ 10 न निष्कृतैरुदितैर्ब्रह्मवादिभि- स्तथा विशुद्ध्यत्यघवान् व्रतादिभिः। यथा हरेर्नामपदैरुदाहृतै स्तदुत्तमश्लोकगुणोपलम्भकम्॥ 11 नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे। तत्कर्मनिर्हारमभीप्सतां हरे- र्गुणानुवादः खलु सत्त्वभावनः॥ 12 अथैनं मापनयत कृताशेषाघनिष्कृतम्। यदसौ भगवन्नाम म्रियमाणः समग्रहीत्॥ 13 साङ्‌केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥ 14 पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः। हरिरित्यवशेनाह पुमान्नार्हति यातनाम्॥ 15 गुरूणां च लघूनां च गुरूणि च लघूनि च। प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः॥ 16 तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः। नाधर्मजं तद्‍धृदयं तदपीशाङ्‌घ्रिसेवया॥ 17 अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत्। सङ्‌कीर्तितमघं पुंसो दहेदेधो यथानलः॥ 18 यथागदं वीर्यतममुपयुक्तं यदृच्छया। अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः॥ 19 श्रीशुक उवाच - ते एवं सुविनिर्णीय धर्मं भागवतं नृप। तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन्॥ 20 इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके। यमराज्ञे यथा सर्वमाचचक्षुररिन्दम॥ 21 द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः। ववन्दे शिरसा विष्णोः किङ्‌करान् दर्शनोत्सवः॥ 22 तं विवक्षुमभिप्रेत्य महापुरुषकिङ्‌कराः। सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ॥ 23 अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः। धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम्॥ 24 भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः। अनुतापो महानासीत्स्मरतोऽशुभमात्मनः॥ 25 अहो मे परमं कष्टमभूदविजितात्मनः। येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना॥ 26 धिङ्‌मां विगर्हितं सद्‌भिर्दुष्कृतं कुलकज्जलम्। हित्वा बालां सतीं योऽहं सुरापामसतीमगाम्॥ 27 वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ। अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत्॥ 28 सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे। धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः॥ 29 किमिदं स्वप्न आहोस्वित् साक्षाद्‍दृष्टमिहाद्‍भुतम्। क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः॥ 30 अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः। व्यामोचयन्नीयमानं बद्ध्वा पाशैरधो भुवः॥ 31 अथापि मे दुर्भगस्य विबुधोत्तमदर्शने। भवितव्यं मङ्‌गलेन येनात्मा मे प्रसीदति॥ 32 अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः। वैकुण्ठनाम ग्रहणं जिह्वा वक्तुमिहार्हति॥ 33 क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः। क्व च नारायणेत्येतद्भगवन्नाम मङ्‌गलम्॥ 34 सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः। यथा न भूय आत्मानमन्धे तमसि मज्जये॥ 35 विमुच्य तमिमं बन्धमविद्याकामकर्मजम्। सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान्॥ 36 मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया। विक्रीडितो ययैवाहं क्रीडामृग इवाधमः॥ 37 ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम्। धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः॥ 38 श्रीशुक उवाच - इति जातसुनिर्वेदः क्षणसङ्‌गेन साधुषु। गङ्‌गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः॥ 39 स तस्मिन् देवसदन आसीनो योगमाश्रितः। प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि॥ 40 ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना। युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि॥ 41 यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः। उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः॥ 42 हित्वा कलेवरं तीर्थे गङ्‌गायां दर्शनादनु। सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम्॥ 43 साकं विहायसा विप्रो महापुरुषकिङ्‌करैः। हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः॥ 44 एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा। निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन्॥ 45 नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात्। न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा॥ 46 य एवं परमं गुह्यमितिहासमघापहम्। श्रृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत्॥ 47 न वै स नरकं याति नेक्षितो यमकिङ्‌करैः। यद्यप्यमङ्‌गलो मर्त्यो विष्णुलोके महीयते॥ 48 म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम्। अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन् ॥ 49 इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोध्याऽयः ॥ 2 ॥
Tamil