header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ एकोनविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ एकोनविंशोऽध्यायः
पुंसवनव्रतविधिः
राजोवाच - व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम्। तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति॥ 1 श्रीशुक उवाच - शुक्ले मार्गशिरे पक्षे योषिद्‍भर्तुरनुज्ञया। आरभेत व्रतमिदं सार्वकामिकमादितः॥ 2 निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च। स्नात्वा शुक्लदती शुक्ले वसीतालङ्‌कृताम्बरे। पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह॥ 3 अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते। महाविभूतिपतये नमः सकलसिद्धये॥ 4 यथा त्वं कृपया भूत्या तेजसा महिमौजसा। जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः॥ 5 विष्णुपत्‍नि महामाये महापुरुषलक्षणे। प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते॥ 6
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति।
अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान-वास‌उपवीतविभूषण-गन्धपुष्पधूपदीपोपह्यराद्युपचारांश्च समाहित उपाहरेत्॥ 7
हविःशेषं तु जुहुयादनले द्वादशाहुतीः। ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति॥ 8 श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ। भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः॥ 9 प्रणमेद्दण्डवद्‍भूमौ भक्तिप्रह्वेण चेतसा। दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत्॥ 10 युवां तु विश्वस्य विभू जगतः कारणं परम्। इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया॥ 11 तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः। त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान्॥ 12 गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान्। त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः। नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः॥ 13 यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ। तथा म उत्तमश्लोक सन्तु सत्या महाशिषः॥ 14 इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह। तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत्॥ 15 ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा। यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम्॥ 16 पतिं च परया भक्त्या महापुरुषचेतसा। प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः। बिभृयात् सर्वकर्माणि पत्‍न्या उच्चावचानि च॥ 17 कृतमेकतरेणापि दम्पत्योरुभयोरपि। पत्‍न्यां कुर्यादनर्हायां पतिरेतत् समाहितः॥ 18 विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात् कथञ्चन। विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः। अर्चेदहरहर्भक्त्या देवं नियममास्थितः॥ 19 उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः। अद्यादात्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा॥ 20 एतेन पूजाविधिना मासान् द्वादश हायनम्। नीत्वाथोपचरेत्साध्वी कार्तिके चरमेऽहनि॥ 21 श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत्। पयःश्रृतेन जुहुयाच्चरुणा सह सर्पिषा। पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः॥ 22 आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः। प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया॥ 23 आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः। दद्यात्पत्‍न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम्॥ 24 एतच्चरित्वा विधिवद्व्रतं विभोः अभीप्सितार्थं लभते पुमानिह। स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम्॥ 25 कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषा गतिम्। मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम्॥ 26 विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम्। एतत्पठन्नभ्युदये च कर्म- ण्यनन्ततृप्तिः पितृदेवतानाम्॥ 27 तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीर्हरिश्च। राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते॥ 28 इति श्रीमद्‌भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः॥ 19 ॥
Tamil