header_image
Home
Tamil

द्वादश स्कन्धः :: अथ पंचमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: द्वादश स्कन्धः
अथ पंचमोऽध्यायः
परमार्थापदेशेन राज्ञः परीक्षितो भीतिनिवारणम्
श्रीशुक उवाच – अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः। यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्‌भवः॥ १ त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि। न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्‌क्ष्यसि॥ २ न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान्। बीजाङ्‌कुरवद् देहादेर्व्यतिरिक्तो यथानलः॥ ३ स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम्। यस्मात् पश्यति देहस्य तत आत्मा ह्यजोऽमरः॥ ४ घटे भिन्ने यथाऽऽकाश आकाशः स्याद् यथा पुरा। एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः॥ ५ मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः। तन्मनः सृजते माया ततो जीवस्य संसृतिः॥ ६ स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते। ततो दीपस्य दीपत्वमेवं देहकृतो भवः। रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति॥ ७ न तत्रात्मा स्वयंज्योतिर्यो व्यक्ताव्यक्तयोः परः। आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः॥ ८ एवमात्मानमात्मस्थमात्मनैवामृश प्रभो। बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया॥ ९ चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः। मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम्॥ १० अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम्। एवं समीक्षन्नात्मानमात्मन्याधाय निष्कले॥ ११ दशन्तं तक्षकं पादे लेलिहानं विषाननैः। न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः॥ १२ एतत्ते कथितं तात यदाऽऽत्मा पृष्टवान् नृप। हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि॥ १३ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः॥ ५
Tamil