श्रीमद्भागवतमहापुराणम् :: द्वादश स्कन्धः
अथ द्वादशोऽध्यायः
श्रीमद्भागवतोक्तविषयाणां संक्षेपतो विवरणम्
सूत उवाच -
नमो धर्माय महते नमः कृष्णाय वेधसे।
ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान्॥ १
एतद् वः कथितं विप्रा विष्णोश्चरितमद्भुतम्।
भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम्॥ २
अत्र सङ्कीर्तितः साक्षात् सर्वपापहरो हरिः।
नारायणो हृषीकेशो भगवान् सात्वतां पतिः॥ ३
अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम्।
ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम्॥ ४
भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम्।
पारीक्षितमुपाख्यानं नारदाख्यानमेव च॥ ५
प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षितः।
शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः॥ ६
योगधारणयोत्क्रान्तिः संवादो नारदाजयोः।
अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः॥ ७
विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः।
पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः॥ ८
ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये।
ततो ब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः॥ ९
कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः।
भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा॥ १०
ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च।
अर्धनारीनरस्याथ यतः स्वायम्भुवो मनुः॥ ११
शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा।
सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः॥ १२
अवतारो भगवतः कपिलस्य महात्मनः।
देवहूत्याश्च संवादः कपिलेन च धीमता॥ १३
नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम्।
ध्रुवस्य चरितं पश्चात्पृथोः प्राचीनबर्हिषः॥ १४
नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः।
नाभेस्ततोऽनु चरितमृषभस्य भरतस्य च॥ १५
द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम्।
ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः॥ १६
दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः।
यतो देवासुरनरास्तिर्यङ्नगखगादयः॥ १७
त्वाष्ट्रस्य जन्म निधनं पुत्रयोश्च दितेर्द्विजाः।
दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः॥ १८
मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम्।
मन्वन्तरावताराश्च विष्णोर्हयशिरादयः॥ १९
कौर्मं धान्वन्तरं मात्स्यं वामनं च जगत्पतेः।
क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम्॥ २०
देवासुरमहायुद्धं राजवंशानुकीर्तनम्।
इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः॥ २१
इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च।
सूर्यवंशानुकथनं शशादाद्या नृगादयः॥ २२
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः।
खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च॥ २३
रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम्।
निमेरङ्गपरित्यागो जनकानां च सम्भवः॥ २४
रामस्य भार्गवेन्द्रस्य निःक्षत्रकरणं भुवः।
ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च॥ २५
दौष्यन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः॥ २६
यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः।
वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले॥ २७
तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः।
पूतनासुपयःपानं शकटोच्चाटनं शिशोः॥ २८
तृणावर्तस्य निष्पेषस्तथैव बकवत्सयोः।
धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः॥ २९
गोपानां च परित्राणं दावाग्नेः परिसर्पतः।
दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम्॥ ३०
व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः।
प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम्॥ ३१
गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ।
यज्ञभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु॥ ३२
शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिनः।
अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः॥ ३३
व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः।
गजमुष्टिकचाणूरकंसादीनां च यो वधः॥ ३४
मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः।
मथुरायां निवसता यदुचक्रस्य यत्प्रियम्।
कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः॥ ३५
जरासन्धसमानीतसैन्यस्य बहुशो वधः।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम्॥ ३६
आदानं पारिजातस्य सुधर्मायाः सुरालयात्।
रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः॥ ३७
हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम्।
प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत्॥ ३८
चैद्यपौण्ड्रकशाल्वानां दन्तवक्त्रस्य दुर्मतेः।
शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः॥ ३९
माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम्।
भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान्॥ ४०
विप्रशापापदेशेन संहारः स्वकुलस्य च।
उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः॥ ४१
यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः।
ततो मर्त्यपरित्याग आत्मयोगानुभावतः॥ ४२
युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः।
चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा॥ ४३
देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमतः।
शाखाप्रणयनमृषेः मार्कण्डेयस्य सत्कथा
महापुरुषविन्यासः सूर्यस्य जगदात्मनः॥ ४४
इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः।
लीलावतारकर्माणि कीर्तितानीह सर्वशः॥ ४५
पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन्।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात्॥ ४६
सङ्कीर्त्यमानो भगवाननन्तः
श्रुतानुभावो व्यसनं हि पुंसाम्।
प्रविश्य चित्तं विधुनोत्यशेषं
यथा तमोऽर्कोऽभ्रमिवातिवातः॥ ४७
मृषा गिरस्ता ह्यसतीरसत्कथा
न कथ्यते यद् भगवानधोक्षजः।
तदेव सत्यं तदुहैव मङ्गलं
तदेव पुण्यं भगवद्गुणोदयम्॥ ४८
तदेव रम्यं रुचिरं नवं नवं
तदेव शश्वन्मनसो महोत्सवम्।
तदेव शोकार्णवशोषणं नृणां
यदुत्तमश्लोकयशोऽनुगीयते॥ ४९
न तद् वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित्।
तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं
यत्राच्युतस्तत्र हि साधवोऽमलाः॥ ५०
स वाग्विसर्गो जनताघसंप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि।
नामान्यनन्तस्य यशोऽङ्कितानि य-
च्छृण्वन्ति गायन्ति गृणन्ति साधवः॥ ५१
नैष्कर्म्यमप्यच्युत भाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम्।
कुतः पुनः शश्वदभद्रमीश्वरे
न ह्यर्पितं कर्म यदप्यनुत्तमम्॥ ५२
यशःश्रियामेव परिश्रमः परो
वर्णाश्रमाचारतपःश्रुतादिषु।
अविस्मृतिः श्रीधरपादपद्मयो-
र्गुणानुवादश्रवणादिभिर्हरेः॥ ५३
अविस्मृतिः कृष्णपदारविन्दयोः
क्षिणोत्यभद्राणि शमं तनोति च।
सत्त्वस्य शुद्धिं परमात्मभक्तिं
ज्ञानं च विज्ञानविरागयुक्तम्॥ ५४
यूयं द्विजाग्र्या बत भूरिभागा
यच्छश्वदात्मन्यखिलात्मभूतम्।
नारायणं देवमदेवमीश
मजस्रभावा भजताविवेश्य॥ ५५
अहं च संस्मारित आत्मतत्त्वं
श्रुतं पुरा मे परमर्षिवक्त्रात्।
प्रायोपवेशे नृपतेः परीक्षितः
सदस्यृषीणां महतां च श्रृण्वताम्॥ ५६
एतद्वः कथितं विप्राः कथनीयोरुकर्मणः।
माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम्॥ ५७
य एवं श्रावयेन्नित्यं यामक्षणमनन्यधीः।
श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः॥ ५८
द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत्।
पठत्यनश्नन् प्रयतस्ततो भवत्यपातकी॥ ५९
पुष्करे मथुरायां च द्वारवत्यां यतात्मवान्।
उपोष्य संहितामेतां पठित्वा मुच्यते भयात्॥ ६०
देवता मुनयः सिद्धाः पितरो मनवो नृपाः।
यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात्॥ ६१
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते।
मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम्॥ ६२
पुराणसंहितामेतामधीत्य प्रयतो द्विजः।
प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत्॥ ६३
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम्।
वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात्॥ ६४
कलिमलसंहतिकालनोऽखिलेशो
हरिरितरत्र न गीयते ह्यभीक्ष्णम्।
इह तु पुनर्भगवानशेषमूर्तिः
परिपठितोऽनुपदं कथाप्रसङ्गैः॥ ६५
तमहमजमनन्तमात्मतत्त्वं
जगदुदयस्थितिसंयमात्मशक्तिम्।
द्युपतिभिरजशक्रशङ्कराद्यैः
दुरवसितस्तवमच्युतं नतोऽस्मि॥ ६६
उपचितनवशक्तिभिः स्व आत्म-
न्युपरचितस्थिरजङ्गमालयाय।
भगवत उपलब्धिमात्रधाम्ने
सुरऋषभाय नमः सनातनाय॥ ६७
स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावो-
ऽप्यजितरुचिरलीलाकृष्टसारस्तदीयम्।
व्यतनुत कृपया यः तत्त्वदीपं पुराणं
तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि॥ ६८
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं
नाम द्वादशोऽध्यायः ॥ १२ ॥