header_image
Home
Tamil

द्वादश स्कन्धः :: अथ दशमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: द्वादश स्कन्धः
अथ दशमोऽध्यायः
मार्कण्डेयाय भगवतः शङ्करस्य वरदानम्
सूत उवाच - स एवमनुभूयेदं नारायणविनिर्मितम्। वैभवं योगमायायास्तमेव शरणं ययौ॥ १ श्रीमार्कण्डेय उवाच - प्रपन्नोऽस्म्यङ्‌घ्रिमूलं ते प्रपन्नाभयदं हरे। यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया॥ २ सूत उवाच - तमेवं निभृतात्मानं वृषेण दिवि पर्यटन्। रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः॥ ३ अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत। पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम्॥ ४ निभृतोदझषव्रातं वातापाये यथार्णवम्। कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान्॥ ५ श्रीभगवानुवाच - नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत। भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये॥ ६ अथापि संवदिष्यामो भवान्येतेन साधुना। अयं हि परमो लाभो नृणां साधुसमागमः॥ ७ सूत उवाच - इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः। ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम्॥ ८ तयोरागमनं साक्षादीशयोर्जगदात्मनोः। न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च॥ ९ भगवांस्तदभिज्ञाय गिरीशो योगमायया। आविशत्तद्‌गुहाकाशं वायुश्छिद्रमिवेश्वरः॥ १० आत्मन्यपि शिवं प्राप्तं तडित्पिङ्‌गजटाधरम्। त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम्॥ ११ व्याघ्रचर्माम्बरधरं शूलखट्वाङ्‌गचर्मभिः। अक्षमालाडमरुककपालासिधनुः सह॥ १२ बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः। किमिदं कुत एवेति समाधेर्विरतो मुनिः॥ १३ नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम्। रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः॥ १४ तस्मै सपर्यां व्यदधात् सगणाय सहोमया। स्वागतासनपाद्यार्घ्यगन्धस्रग् धूपदीपकैः॥ १५ आह चात्मानुभावेन पूर्णकामस्य ते विभो। करवाम किमीशान येनेदं निर्वृतं जगत्॥ १६ नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च। रजोजुषेऽप्यघोराय नमस्तुभ्यं तमोजुषे॥ १७ सूत उवाच - एवं स्तुतः स भगवानादिदेवः सतां गतिः। परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत॥ १८ श्रीभगवानुवाच - वरं वृणीष्व नः कामं वरदेशा वयं त्रयः। अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम्॥ १९ ब्राह्मणाः साधवः शान्ता निःसङ्‌गा भूतवत्सलाः। एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः॥ २० सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते। अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः॥ २१ न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते। नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि॥ २२ न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः। ते पुनन्त्युरुकालेन यूयं दर्शनमात्रतः॥ २३ ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम्। बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः॥ २४ श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि वः। शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः॥ २५ सूत उवाच - इति चन्द्रललामस्य धर्मगुह्योपबृंहितम्। वचोऽमृतायनमृषिर्नातृप्यत् कर्णयोः पिबन्॥ २६ स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम्। शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत्॥ २७ ऋषिरुवाच - अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम्। यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः॥ २८ धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम्। आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च॥ २९ नैतावता भगवतः स्वमायामयवृत्तिभिः। न दुष्येतानुभावस्तैर्मायिनः कुहकं यथा॥ ३० सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य यः। गुणैः कुर्वद्‌भिराभाति कर्तेव स्वप्नदृग् यथा॥ ३१ तस्मै नमो भगवते त्रिगुणाय गुणात्मने। केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये॥ ३२ कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात्। यद्दर्शनात् पूर्णकामः सत्यकामः पुमान् भवेत्॥ ३३ वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात्। भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि॥ ३४ सूत उवाच - इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा। तमाह भगवान् शर्वः शर्वया चाभिनन्दितः॥ ३५ कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे। आकल्पान्ताद् यशः पुण्यमजरामरता तथा॥ ३६ ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत्। ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते॥ ३७ सूत उवाच - एवं वरान् स मुनये दत्त्वागात्त्र्यक्ष ईश्वरः। देव्यै तत्कर्म कथयन्ननुभूतं पुरामुना॥ ३८ सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः। विचरत्यधुनाप्यद्धा हरावेकान्ततां गतः॥ ३९ अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः। अनुभूतं भगवतो मायावैभवमद्‌भुतम्॥ ४० एतत् केचिदविद्वांसो मायासंसृतिमात्मनः। अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते॥ ४१ य एवमेतद् भृगुवर्य वर्णितं रथाङ्‌गपाणेरनुभावभावितम्। संश्रावयेत् संश्रृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत्॥ ४२ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे दशमोऽध्यायः ॥ १० ॥
Tamil